________________
२१७
दानेऽशनशुद्धिविवेचनम् इइ णवविहदाणाओ पुण्णं अज्जेइ जो महासत्तो । कमला चवलावि सया तस्स घरे सासया वसइ ॥ ३७॥
व्याख्या-यो महासत्त्वोऽधिकपुण्यो रोमाञ्चाञ्चितगात्रो-हर्षोत्कर्षेण पुलकिताङ्गः सन्, अशनं-परमान्नमोदकादि, पानं-प्रासुकजलम् , आसनं-मुनिष्वागतेषु सिंहासनदानम्, वसनं-वस्त्रकम्बलादि, वसति:-शय्या, संस्तारकं-पीठफलकादि, शुश्रूषा-पर्युपास्तिः, वन्दनंमुनिनमस्करणम्, तुष्टिर्मुनिजनविलोकनात्परमानन्दः, इत्यमुना प्रकारेण नवविधदानात् पुण्यं-सुकृतमर्जयति। तस्य पुरुषस्य गृहे [ सदानिरन्तरम्] कमला-श्रीश्चपलापि-गिरिसरित्तरङ्गतरलापि, शाश्वतीस्थिरस्थायिनी, वसति-निवासं करोतीति गाथायुगार्थः ।। तत्रादावशनशुद्धिं प्रतिपिपादयिषुराहउग्गमउप्पायणएसणाई सगयालदोसपरिसुद्धं । सिद्धंतभणियविहिणा उभयहियं तं भवे असणं ॥ ३८॥
व्याख्या-उद्गमदोषाः षोडश गृहस्थकृताः, उत्पादनादोषा: षोडश यतिकृताः, एषणादोषा दश गृहि-यतिकृताः, आदिशब्दात् पञ्च ग्रासैषणादोषा मुनिकृताः, एवं सप्तचत्वारिंशद्दोषा आगमोक्तास्ते चामी॥ आहाकम्मुद्देर्सिय पूईकम्मे य मीसजाए य । ठवेणा पाहुडियाए, पाओयर कीय पार्मिच्चे ॥ १॥ परियट्टिए अभिडुब्भिण्णे मालोहडे य अच्छिज्जे । अणिसिद्धेऽझोयरए सोलस पिंडुग्गमे दोसा ॥ २ ॥ [पिण्डविशुद्धिः-३।४] [श्रीप्रवचनसारोद्धारः-५६३।६४] धाई दूई निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोहे य हवंति दस एए ॥ ३॥
४
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org