________________
१८७
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा कोऽपि कार्पटिकोऽप्येवं वीक्ष्यान्येभ्यो न्यवेदयत् । तैः प्रोचे घृतखण्डाढ्यमद्य मण्डकमाप्स्यसि ॥ १६५ ॥ स तथैवासदत्क्वापि गृहाच्छादनपर्वणि । न ह्यभाग्यवतां तादृगपि स्वप्नः फलप्रदः ॥ १६६ ।। प्रातर्मूलसुरो गत्वोद्यानमुद्यानपालकम् । प्रसूनोच्चयसाहाय्यदानादानन्दयत्सुधीः ॥ १६७ ।। हर्षादारामिकस्तस्मै, प्रादात्पुष्पफलादिकम् । सोऽपि स्नानं विधायागात् स्वप्नपाठकवेश्मनि ॥ १६८॥ भक्त्या नैमित्तिकं नत्वा, धृत्वा चाग्रे कलं फलम् । सम्यक् स्वप्नफलं मूलदेवोऽपृच्छदतुच्छधीः ॥ १६९ ॥ तच्छ्रुत्वा मुदितो मूलदेवं दैवज्ञिकोऽवदत् ।। सुमुहूर्ते भणिष्यामि, किन्त्वस्माकं भवातिथिः ॥ १७० ॥ संस्नाप्योष्णाम्भसा नव्यदुकूले परिधाप्य च । भोजयामास तं मूलदेवं दैवज्ञपुंगवः ॥ १७१ ॥ ऊचे च वत्स! मत्पुत्री, नवयौवनशालिनीम् । पाणिग्रहणनिर्माणविधिनाधिनुतात् स्फुटम् ॥ १७२ ॥ मूलदेवोऽवदत्तातापरिज्ञातकुलादिना । मया समं सुतोद्वाहसंबन्धोऽयं न बन्धुरः ॥ १७३ ॥ दैवज्ञः प्राह हे प्राज्ञ! स्वाचारेण कुलादिकम् । विज्ञायते यतो लोकेऽप्येवमाकर्ण्यते स्फुटम् ॥ १७४ ॥ आचारः कुलमाख्याति, देशमाख्याति जल्पितम् । संभ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥ १७५ ॥ तदेनां प्रार्थनां मामकीनां स्वीकुरु सुन्दर! । न हि साधुषु कोऽप्यर्थः कथ्यमानो वृथा भवेत् ॥ १७६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org