________________
१८६
श्रीदानोपदेशमाला (गा.२९) चित्तं भावयुतं वित्तं कुल्माषाः प्रासुकाः किल । पात्रं चेदृगतो रत्नत्रयमेतत्सुदुर्लभम् ॥ १५३ ॥ तदेतदतिदुष्प्रापं प्राप्य प्राक्पुण्ययोगतः । अवश्यमेव मयका विधातव्यं फलेग्रहि ॥ १५४ ॥ ध्यात्वेति मूलदेवस्तं, प्रोवाच भगवन्मम । पारणेऽष्टमभक्तस्यादत्स्व माषान् दयानिधे! ॥ १५५ ॥ महात्मापि विशुद्धांस्तान् कुल्माषान् वीतकल्मषः । निरूप्य दायकस्याग्रे पतद्ग्रहमधारयत् ॥ १५६॥ मुनये भावनासारं, ददत्तानिति सोऽपठत् । नृणां पुण्यवतां माषाः साधोः पारणकेऽभवन् ॥ १५७॥ अत्रान्तरे विहायःस्था साधुभक्ता सुरी जगौ । मूलदेव! त्वया साधु कृतं यत्पारितो मुनिः ॥ १५८॥ तदिदानीं त्वयि प्रीतास्म्यतो यत्तव रोचते । तत्त्वं श्लोकाघ्रियुग्मेन मनोभीष्टं वरं वृणु ॥ १५९ ॥ सोऽवादीद्यदि देवि! त्वं संतुष्टासि तदा मुदा। राज्यं गजसहस्राढ्यं, देवदत्तां च देहि मे ॥ १६० ॥ देवी जगाद हे वत्स! तिष्ठ निश्चिन्तमानसः । मुनिप्रसादादेतत्ते रयादेव भविष्यति ॥ १६१ ॥ एवमस्त्विति स प्रोच्य, नत्वा च मुनिमग्रतः । प्रतस्थेऽथ मुनिर्गत्वोद्याने पारणकं व्यधात् ॥ १६२ ॥ ग्रामेऽन्यत्र भ्रमन्मूलदेवः प्राप्तान्यभोजनः । भुक्त्वा बेन्नातटे देश्यकुट्यां सायमियाय सः ॥ १६३ ॥ तत्र प्रसुप्तः स्वप्नेऽसौ चरमप्रहरे निशः । मुखे विशन्तं संपूर्णं, पूर्णिमाचन्द्रमैक्षत ॥ १६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org