________________
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा १८५ तस्मिन्नपि दिने टक्को भुक्त्वासौ भस्त्रिकामुखम् । बबन्ध मूलदेवोऽपि भोज्याशावनितामुखम् ॥ १४१ ॥ लङ्धितायामथाटव्यां द्विमार्यो तं द्विजो जगौ । मम ग्रामस्य मार्गोऽयमयं बेन्नातटस्य च ॥ १४२ ॥ मूलदेवोऽवदद्विप्र! त्वत्साहाय्यादिहागमम् । अतो विद्धि सखे! मूलदेव इत्यभिधां मम ॥ १४३॥ यदा कदाचिन्मे कार्यं दैवात् सिध्येत् तदा त्वया । बेन्नातटं समेतव्यमाख्यामाख्याहि चात्मनः ॥ १४४ ॥ स प्राह प्रोच्यते पित्रा सद्धडेत्यभिधा मम । लोकैनिघृणशर्मेति श्रुत्वाऽसौ विस्मितोऽभवत् ॥ १४५ ॥ टक्के स्वस्थानकं प्राप्ते मूलदेवोऽग्रतोऽचलत् । ययौ च कुत्रचिद् ग्रामेऽरण्यस्याभ्यर्णवर्तिनि ॥ १४६ ॥ सोऽत्र प्रतिगृहं भ्राम्यन् कुल्माषानाप नापरम् । कृतकृत्यः सरस्तीरे, भोजनाय जगाम च ॥ १४७ ॥ सोऽस्मिन्नवसरे शुष्कगात्रं पात्रं तपःश्रियः । मासक्षपणिनं साधुं समायान्तमवैक्षत ॥ १४८ ॥ व्यचिन्तयच्च तत्सत्यं, कल्पद्रुरतरौ मरौ । अनभ्रा वृष्टिसृष्टिश्च प्रसूनेन विना फलम् ॥ १४९ ॥ चिन्तामणिमहारत्नागमो रोरगृहाङ्गणे। यदीहक्समये साधुसङ्गमो रङ्गमोदकृत् ॥ १५०॥ युगलम् ॥ ग्रामे प्रकृत्या निःशूका लोका दानपराङ्मुखाः । अतस्तपःकृशस्तत्र, गत्वा क्लिश्यतु मा मुनिः ॥ १५१॥ अहं पुनरितोऽन्यत्र ग्रामे निकटवर्त्तिनि । भिक्षामाप्स्यामि तन्माषानेतान् यच्छामि साधवे ॥ १५२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org