________________
१८४
एवं विमृशतस्तस्य टक्कजातिभवो द्विजः । शम्बलस्थगिकां स्कन्धे, धारयन्नाययौ रयात् ॥ १२८॥ भद्र ! क्व यास्यसीत्युक्तो मूलदेवेन सोऽवदत् । गन्ताटव्याः परे पारेग्रामं वीरनिधानकम् ॥ १२९॥ सुन्दर ! त्वं क्व गन्तेति पृष्टस्तेन द्विजन्मना । भद्र! यास्याम्यहं बेन्नातटं नाम महापुरम् ॥ १३०॥ यद्येवं तर्हि मार्गोऽयमावयोरेक एव हि । ततस्तौ परमप्रीत्या कलितौ चलितौ पुरः ॥ १३१॥ तस्यामटव्यां गच्छन्तौ तौ दिवायामयामले । पुरस्सरः समालोक्य विश्रान्तौ श्रान्तिभित्तये ॥ १३२ ॥ स्नानं कृत्वा पयः पीत्वा, छायाशालितटद्रुमम् । मूलदेवे स्थिते टक्कोऽच्छादयच्छम्बलस्थगीम् ॥ १३३ ॥ शक्तून्निष्काश्य कांस्यस्य पात्रे प्रक्षिप्य वारिणा । आर्द्रीकृत्य ततो भोक्तुं विप्रः प्रववृत्तेतराम् ॥ १३४॥ अचिन्तयदयं मूलदेवः प्रायो द्विजन्मनाम् । स्वभावो यत्स्वयं भुक्त्वाऽन्यस्मै पश्चाद्ददत्यमी ॥ १३५॥ तदयं क्षुधयाक्रान्तो, मार्गश्रान्तोऽधुना स्वयम् । तृप्तीभूय ततो मह्यं शक्तूनेतान् प्रदास्यति ॥ १३६॥ विप्रस्तान् भुक्त्वा बद्ध्वा च स्थगीं पथ्यचलत्पुरः । सायं दातेति निश्चित्य, मूलदेवस्तमन्वगात् ॥ १३७ ॥ तदाप्यदत्ते श्वो दाता, मह्यमित्याशया व्रजन् । निशि सुष्वाप तेनासौ समं वटतरोस्तले ॥ १३८॥ द्वितीयेऽप्यह्नि तौ वत्र्मोल्लङ्घ्यास्थातां दिनार्धके । पूर्ववद्वाडवोऽभुक्त, न तु तस्मै किमप्यदात् ॥ १३९॥ तृतीये दिवसे मूलदेवश्चेतस्यचिन्तयत् । शक्तूनद्य प्रदातास्मै, यतोऽल्पास्त्यटवी पुरः ॥ १४० ॥
श्रीदानोपदेशमाला (गा. २९)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org