________________
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा
१८३ खल्याविलजलक्लिन्नाङ्गेऽस्मिन् जाते तयाक्कया । समाहूताः समायाता योधा स्फूर्जदुदायुधाः ॥ ११६॥ अचलेन निकृष्टेन समाकृष्ट: शिरोरुहैः । कोऽधुना शरणं तेऽस्तीत्यभाष्यत स शिष्टधीः ॥ ११७ ॥ सोऽपि स्वं वेष्टितं स्पष्टं विज्ञाय भटकोटिभिः । स्माचष्टे नष्टचेष्टस्तं, यज्जानीष कुरुष्व तत् ॥ ११८॥ अचलश्चिन्तयामासाकृतिरेवास्य देहिषु ।। वक्त्युत्तमत्वं तन्मन्ये स्खलितं स्यान्न कस्यचित् ॥ ११९ ॥ उक्तं च - को इत्थ णिच्चसुहिओ कस्स य लच्छी अखंडियच्छाया । कस्स थिरं पिम्मसुहं खलियं ण समागयं कस्स ॥ १२० ॥ इति ध्यात्वाचलः प्रोचे, दुस्थावस्थागतो भवान् । यथामोचि मया तद्वत्त्वया मोच्योऽहमापदि ॥ १२१ ॥ मूलदेवो गतानन्दो निर्गत्याशु तदालयात् । अन्त्यजेन स्पृष्ट इव, सचेलोऽस्नात्सरोवरे ॥ १२२॥ व्यचिन्तयदयं मानी, क्वापि गत्वास्य विप्रिये । उपायचिन्तनं कुर्वे, नो चेन्मे पौरुषं वृथा ॥ १२३ ॥ यतः- उवयारं उवयारीण वेरणिज्जायणं च वेरीणं । काउं जो न समत्थो धिगत्थु पुरिसत्तणं तस्स ॥ १२४ ॥ ततोऽसौ समयाभिज्ञो भिक्षया प्राणवृत्तिकृत् । प्रतस्थे सौख्यरत्नौघघटं बेन्नातटं प्रति ॥ १२५ ॥ क्रमादुल्लङ्घयन् वाटवी द्वादशयोजनाम् । संप्राप्तो निःसहायोऽसौ, चिन्तयामासिवानिति ॥ १२६ ॥ यदि कोऽपि पुमान् मार्गे, द्वितीयो वचसा पि हि । तदापदिव दुर्लध्याप्याशूल्लङ्घ्याटवी भवेत् ॥ १२७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org