________________
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा
प्रान्तमिक्षौ सुमे वृन्तं दुकूले स्थूलशाटकम् । कदम्बखण्डं श्रीखण्डे याचिते विततार सा ॥ ९१ ॥
प्रान्तम्-इक्षुकूर्चकम् ।
तया किमेतदित्युक्ता, साह यक्षानुसारतः । पूजोपचारस्तद्युक्तमेतेषामुपढौकनम् ॥ ९२ ॥ इयं ध्रुवं धने गृद्धा ध्यात्वैवं प्राह सा प्रसूम् । ममेक्षुभक्षणे वाञ्छेत्यचलाय निवेद्यताम् ॥ ९३॥ तत्पुरस्तात्तयेत्युक्तेऽचलस्तत्कालमेव हि । प्रेषयामास शकटमिक्षुभिर्निभृतं भृतम् ॥ ९४ ॥ यदेवमचलः प्रैषीदिक्षुभिः शकटं भृतम् । तदहं किं पशुः साहसत्तूदारतराशयः ॥ ९५ ॥ माधवीं देवदत्ताह स्पृहा मेऽस्तीक्षुभक्षणे । त्वयेति मूलदेवाग्रे गत्वा सद्यो निगद्यताम् ॥ ९६॥ तयापि हि तथैवोक्ते मूलदेवो धियां निधिः । इक्षुयष्टीः समानीयापनीय त्वचमुच्चकैः ॥ ९७॥ पर्वाणि प्रोज्झ्य खण्डानि, द्व्यङ्गुलानि विधाय च चतुर्जातकचूर्णेन भावयित्वा ततः परम् ॥ ९८॥ सारेण घनसारेणाधिवास्य निशितास्यकैः ।
विभिद्य कण्टकैः स्तोकं कुम्भकारगृहादथ ॥ ९९ ॥ सरावयुगलं कौरं, लात्वैकस्मिन्निधाय सः ।
द्वितीयेन समाच्छाद्य, प्राहिणोन्माधवीकरे ॥ १०० ॥ कलापकम् ॥ तयापि विज्ञया वेगादागत्य निजमन्दिरे । देवदत्तापुरस्तात् तन्निधिपात्रमिवाधृत ॥ १०१ ॥ वर्धमानं मुदादाय प्रियेण प्रहितं हितम् । अम्बामाकार्य सा तस्या अदर्शयदुवाच च ॥ १०२॥
Jain Education International
१८१
For Personal & Private Use Only
www.jainelibrary.org