________________
१८०
श्रीदानोपदेशमाला (गा.२९) तदैव दैवयोगेन, मूलदेवोऽप्युपागतः । तत्र चित्रकरैः पाटैः पटहं समवादयत् ॥ ७९ ॥ प्रीतः प्रजाप्रभुः प्रोचे, देवदत्ते! वरं वृणु । सापि स्माह महीपाल!, निधानीक्रियतामयम् ॥ ८० ॥ मूलदेवः सदा द्यूतव्यसनेनांशुकान्यपि । हारयन्नेकदा देवदत्तयाभिदधे स्फुटम् ॥ ८१॥ देव! त्वया कलाढ्येन सोमेनेव कलङ्कवत् । कैतवव्यसनं दोषाकरं कर्तुं न युज्यते ॥ ८२ ॥ इदं तु श्रीयशोनाशकारकं मानवारकम् । लोकद्वयविरुद्धं च, त्याज्यं प्राज्यशुभेच्छुभिः ॥ ८३ ॥ इत्थं तया हितं तथ्यं, जल्पितः सोऽत्यजन्न तत् । अथवा व्यसनासक्ते, न लगन्ति गुरोर्गिरः ॥ ८४ ॥ अथास्यामचलप्रेमाचलसार्थेश्वरोऽनिशम् । मूलदेवोपरि द्वेषं, वहंश्छिद्राणि पश्यति ॥ ८५ ।। मूलदेवोऽपि तस्मिंश्च, सति नायाति तद्गृहे । यतस्तेन परायत्ता, देवदत्तास्ति संप्रति ॥ ८६॥ जनन्या स्वकुलाचारानुसारं सेति शिक्षिता । वत्सेऽचलं कलं लक्ष्मी भजामुं त्वधनं त्यज ॥ ८७॥ सापि प्रोचेऽम्ब! मे द्रव्ये, नानुरागः परं गुणे । अक्काप्यवादीदहं मन्ये, के दृष्टाः कितवे गुणाः ॥ ८८ ॥ देवदत्तावदत्तां स, सुरूपसुभगो गुणी । प्रियंवदो विशेषज्ञो, दाक्षिण्यक्षीरसागरः ॥ ८९॥ अतोऽहं न त्यजाम्येनमीदृग्गुणगणाकरम् । श्रुत्वेत्यक्काप्यतिस्पष्टैर्दृष्टान्तैस्तामबोधयत् ॥ ९० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org