________________
१७९
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा तद्विज्ञप्तो निजादास्यानिष्कास्य गुटिकामसौ । स्वभावरूपभृन्मूलदेवो, देव इवाभवत् ॥ ६७॥ सापि तं मन्मथाकारं, पारावारं गुणश्रियः । दृष्ट्वा सृष्टिकृतः सृष्टिश्रमं मेने फलेग्रहिम् ॥ ६८॥ पुनर्निपत्य तत्पादे, महानयमनुग्रहः । इत्युदीर्य तया स्वेन, साकं सोऽस्नप्यतादरात् ॥ ६९॥ देवदत्तात्मना सार्धं, तमाहारं रसोत्तरम् । भोजयित्वा दुकूले च, परिधाप्येत्यभाषत ॥ ७० ॥ देव! त्वामन्तरेणान्यः कश्चनापि पुमान्न मे । मानसं मानसंपूर्णं, सुदूरज्यमरञ्जयत् ॥ ७१ ॥ को नाम नेक्ष्यतेऽक्षिभ्यां, केन साकं न संकथाः । यः पुनर्हदयानन्दप्रदः स विरलो नरः ॥ ७२ ॥ अतो मे हर्नामागम्य, विश्रम्यं भवता सदा । तयेत्युदीरितः सोऽपि, तामुवाच वचस्विनीम् ॥ ७३॥ देवि! वैदेशिके द्रव्यहीनेऽस्मादृशि पूरुषे । अवश्यं न स्थिरः स्नेहः, कुशाग्रे जलबिन्दुवत् ॥ ७४ ।। धनवानगुणज्ञोऽपि, गौरवाय भवेद् भुवि । निर्धनस्तु गुणज्ञोऽपि, तृणादपि लघुर्नरः ॥ ७५ ॥ तच्छ्रुत्वा देवदत्ताह, मैवं वद विशारद! । कलाविदां गुणिन्येवानुरागो न तु निर्गुणे ॥ ७६ ।। तदेनां प्रार्थनां विज्ञानुमन्यस्व ततस्तयोः । स्नेहः प्रववृधेऽत्यर्थं, चन्द्रचन्द्रिकयोरिव ॥ ७७॥ अन्यदा संसदासीनविचारधवलप्रभोः । पुरतो देवदत्तातिचित्रं नृत्यमसूत्रयत् ॥ ७८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org