________________
१७८
श्रीदानोपदेशमाला (गा. २९)
केशं चाकृष्य वेश्यायै वैणिकायाप्यदर्शयत् । सम्यक् समारचय्यैनां वादयामास चाद्भुतम् ॥ ५५ ॥ युग्मम् ॥ अनाकर्णितपूर्वा तत्क्वणित श्रवणादियम् । परिवारवृतालेख्यलेखितेवाजनि क्षणम् ॥ ५६ ॥ तं वेश्यावैणिकौ वीणाकलाकौशलशालिनम् । खर्वरूपेण कोऽप्येष गन्धर्व इति दध्यतुः ॥ ॥ ५७॥ वल्लकीवादकं वेश्या, सत्कृत्य च विसृज्य च । भोजनावसरे जाते, प्रजगादेति माधवीम् ॥ ५८ ॥ हंजेऽङ्गमर्दं वेगेन, समाकार्य समान । विधीयते यथावाभ्यां, स्नानं दशगुणोल्बणम् ॥ ५९॥ खर्वः स्माहानुजानीहि मां यथाभ्यङ्गमादधे ।
सा च प्रोवाच भवता, किमेतदपि बुध्यते ॥ ६० ॥ स प्राह ज्ञायते नैव, किन्तु विज्ञान्तिके स्थितः । तयाप्योमिति स प्रोक्तोऽभ्यङ्गाय प्रगुणोऽभवत् ॥ ६१ ॥ यथा प्रत्यङ्गमभ्यङ्गं, चक्रे वक्रेतराशयः । यथारामादिसौख्यात्सा परमानन्दभागभूत् ॥ ६२॥ अहो असदृशोऽमुष्य विज्ञानातिशयः स्फुटम् । अहो अदृष्टपूर्वा च करयोः सुकुमारता ॥ ६३ ॥ तदवश्यमहं मन्ये नायं भवति वामनः 1 किन्तु स्वात्मविनोदाय, वामनत्वमशिश्रियत् ॥ ६४॥ ध्यात्वेति देवदत्तेयं, स्मेरलोचनपङ्कजैः । पूजाचिकीरिवामुष्य, देवस्येवापतत्पदोः ॥ ६५ ॥ ऊचे च देव! त्वामीदृग्गुणैः प्रांशुकुलोद्भवम् । अवैमि तत्प्रसद्य द्राग् रूपं स्वाभाविकं भज ॥ ६६ ॥
Jain Education International
,
For Personal & Private Use Only
www.jainelibrary.org