________________
१७७
॥४८॥
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा तदा तदीयपदयोः, पूजां कर्तुमिव स्वकम् । शिर:सरोरुहं न्यस्य, माधवी तमवोचत ॥४३॥ देव! कुब्जाङ्किताङ्गी मां वृद्धो वेधा व्यधात्पुरा । त्वयाधुना त्वहं नव्यवेधसा सरलीकृता ॥४४॥ भवन्तमन्तरेणान्यादृशाकृतिभृतो मम । व्रजन्त्याः स्वामिनीधाम्नि, प्रवेशोऽपि हि दुर्घटः ॥४५॥ तदार्य! मयि किङ्कर्यां विधाय सदयं मनः । मां प्रवेशय तद्गेहे, सन्तो न ह्यर्थनाभिदः ॥४६॥ इत्युक्तः स तयादत्तबाहुः स्वीयेन बाहुना । गृहीत्वा स्वामिनीगेहमादरेण प्रवेशितः ॥४७॥ कुब्जामन्यादृशीं दृष्ट्वा देवदत्ताह हे हले!। कासीति पृष्टा सा सर्वं, खर्ववृत्तान्तमब्रवीत् ॥४८॥ साप्युत्थाय स्वयं तस्मै नयनानन्ददायिने । आसनं ढौकयामास सोऽपि तस्मिन्नुपाविशत् ॥४९॥ कुशलं वः समस्तीति, तया पृष्टः स शिष्टधीः । सप्रेमवाक्यभङ्गीभिस्तां रम्भोरूमरञ्जयत् ॥५०॥ अथैत्य वैणिको वीणामवादयदियं च तम् । प्रीतास्तावीदहो अस्य, विपञ्च्यां किल कौशलम् ॥ ५१॥ अहो अवन्तिलोकानां वैदग्ध्यमतिबन्धुरम् । तेनेत्युक्तेऽब्रवीद्देवदत्ता किं खूणमत्र भोः! ॥५२॥ सूणम्-क्षतिम्, देश्यशब्दोऽयम् ।। उवाच वामनस्तन्त्र्याः शुद्धो वंशो गुणोऽपि न । कथं ज्ञायत इत्युक्तस्तया सोऽप्याह दर्शये ॥५३॥ ततोऽस्मै विस्मितो वीणां वैणिक: प्रददे स तु । तामुपादाय वंशान्त:कर्करं गुणमध्यतः ॥ ५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org