________________
१७६
तत्त्वं मे स्वामिनीं स्वीयागमनेनाभिनन्दय । लोकेऽपि श्रूयते यस्मात्सन्तः सर्वहितेच्छवः ॥ ३१॥ इत्याकर्ण्य सकर्णोऽसौ तामूचे साधु ते वचः किन्तु वाराङ्गनागेहे, गमनं ह्रीकरं सताम् ॥ ३२ ॥ वेश्या दुर्जनमैत्रीव, परमार्थविघातिनी ।
परित्याज्या न संसेव्या, महतामिति संमतम् ॥ ३३ ॥
श्रीदानोपदेशमाला (गा. २९)
उक्तं च-.
या विचित्रविटकोटिनिघृष्टा मद्यमांसनिरतातिनिकृष्टा । कोमला वचसि चेतसि दुष्टा तां भजन्ति गणिकां न विशिष्टाः ॥ ३४ ॥ सा सत्त्वघ्नी शतघ्नीव, शौनिकीव नृशंसिका । वञ्चिका ठगिनीवाङ्गीक्रियते कैः पणाङ्गना ॥ ३५ ॥ अधनः स्मररूपोऽपि, सरीसृप इवोज्झ्यते । धनी कुष्ठोऽपि वेश्याभिः सुरेन्द्र इव सेव्यते ॥ ३६ ॥ अतस्तदीयसङ्गे मे मानसं मानसं गतम् । हंसवद्रमते पङ्कसंकुले नड्वले न हि ॥ ३७॥ इत्युक्त्वा विरते तस्मिन्, माधव्याह विचक्षण ! | स्वामिनी रज्यतेऽस्माकं, सगुणे न तु निर्गुणे ॥ ३८ ॥ मत्स्वामिनीमनोरलं, त्वया गुणवताप्यहो । हृतं तया तदादातुं प्रहिता भवदन्तिकम् ॥ ३९ ॥ विलम्बं त्यज तद्यच्छान्यथा त्वां पश्यतोहरम् । बलादपि हि नेष्यामि, देवदत्तापदान्तिकम् ॥ ४० ॥ श्रुत्वेति वामनो रुष्ट इव विद्याप्रयोगतः आहत्यांहिप्रहारेण कुब्जिकां सरलां व्यधात् ॥ ४१ ॥
1
साप्यन्यादृशमात्मानं, रूपलावण्यसुन्दरम् । जन्मान्तरीभूतमिव विनिरीक्ष्य विसिष्मिये ॥ ४२ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org