________________
१७५
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा एतदाकर्ण्य कर्णाभ्यां, सोऽभिमानमहोदधिः । सुहृद्भिर्वार्यमाणोऽपि, नि:ससार पुराद् बहिः ॥ १८॥ उर्वीमुर्वीमतिक्रामन् क्रमचङ्क्रमणेन सः । क्रमेण कमलाशालां, विशालां पुरमासदत् ॥ १९ ॥ गुटिकायाः प्रयोगेण, गुणाखोऽपि खर्वताम् । शिश्राय मूलदेवो हि, किमसाध्यं कलावताम् ॥ २० ॥ सकलाभिः स कलाभिर्विदुषामपि मानसम् । वामनो मोदयामास गुणिभिः को न रज्यते ॥ २१॥ अथ तत्र चतुःषष्टिकलाकौशलशालिनीम् । सामान्यजनदूरज्यां, देवदत्तां पणाङ्गनाम् ॥ २२ ॥ श्रुत्वा तस्यागृहासन्नशून्यदेवकुले स्थितः । वामनस्तन्मनःक्षोभहेतवे गीतमातनोत् ॥ २३॥ युग्मम् ॥ देवदत्तापि तच्छ्रुत्वा, सुधापानोपमं श्रुतेः । हहाहिहाहाहूहूनामपि गेयममन्यत ॥ २४॥ तं नरं परिजिज्ञासुर्देवदत्तातिवेगतः ।। तत्पार्श्वे प्रेषयामास विज्ञं प्रेष्याजनं निजम् ॥ २५॥ सोऽपि गत्वा परिज्ञाय समेत्य च यथास्थितम् । जगाद तत्पुरः कोऽपि, गेयं गायति वामनः ॥ २६ ॥ मन्ये माधवरूपेण माधवोऽयमितीव सा ।। तदाह्वानकृते प्रेष्यां, माधवीं प्राहिणोत्तमाम् ॥ २७॥ सा स्वभावेन कुब्जाङ्गी, विशिष्टा विनयेन च । एत्यामृतमुचा वाचा तमुवाच विचक्षणा ॥ २८॥ अये! वामन! ते गीतकलया कलया मम । स्वामिनी देवदत्ताशु हरिणीव विमोहिता ॥ २९ ॥ यथा कमलिनी तिग्मरश्मेर्दर्शनमीहते । तथा सा तव पुंरत्न! त्वद्गुणाकृष्टमानसा ॥ ३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org