________________
श्रीदानोपदेशमाला (गा. २९)
१७४
1
तादृक्कुलं च शीलं चावगणय्याचलश्चल: स्मरार्त्ती देवदत्ताया वेश्म प्रविशति स्म सः ॥ ६॥ साप्युत्थायासने स्वीये निवेश्य तमवोचत । स्वामिन्निदं गृहं चेमाः श्रियश्चाहं च ते स्फुटम् ॥ ७॥ श्रुत्वेति रसभृद्देवदत्तावाप्यां कृताप्लवः 1 अचलः पञ्चबाणाग्नितापं शामयति स्म सः || 2 11 वस्त्रैर्विचित्रैर्वित्रस्तदूषणैर्भूषणैरपि ।
वेश्यां स रञ्जयामास, पुरन्दर इवोर्वशीम् ॥ ९॥ तं निर्गुणमपि श्रीभिः सगुणं सा गुणोल्बणा । सिषेवे खलु वेश्यानामर्थ एव प्रियो न ना ॥ १०॥ इतश्च पाटलीपुत्रपुरे धीरः पराक्रमी ।
रूपतारुण्यलावण्यपुण्याङ्गः सरलाशयः ॥ ११॥ गुणानुरागी रागीव दक्षो दाक्षिण्यमन्दिरम् । त्यागी भोगी सुगीरङ्गी विज्ञानी विनयी नयी ॥ १२ ॥ वक्ता शक्ताभिमानी च क्षत्रगोत्रमहोदधौ ।
मूलदेवो बुधानन्दी पारिजात इवाभवत् ॥ १३॥ त्रिभिर्विशेषकम् ॥ किमन्यत्कथ्यतेऽस्माभिस्ताः काश्चिन्न कलाः कलाः । अहंपूर्विकया यास्तं सुधांशुमिव शिश्रियः ॥ १४॥ किन्तु तस्य नलस्येव, कैतवव्यसनं घनम् । समजायत सर्वत्र, सर्वे न तु पुनर्गुणाः ॥ १५॥ पिता तमाह हे वत्स ! द्यूतव्यसनतः पुरा । युधिष्ठिरनरेन्द्रोऽपि प्राप्तवांस्तादृशीं दशाम् ॥ १६ ॥ अत एतत् श्रियामुच्चाटनमन्त्रमिवापरम् । परित्यजतरां नो चेद् यज्जानीषे कुरष्व तत् ॥ १७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org