________________
चित्त-वित्त-सत्पात्रसामग्रीदानविषये श्रीमूलदेवनृपकथा
१७३ प्रीतिरभिगमश्च नमस्करणं च-अभिगमनमस्करणं-तेन । वन्दनंद्वादशावर्त्तवन्दनकदानम्, सत्कारो-वस्त्रादिना प्रतिलाभनम् , पूजनंचन्दनादिना गुरुचरणार्चनम्, वन्दनं च सत्कारश्च पूजनं च-वन्दनसत्कारपूजनं तेन, च शब्दाद्विनयादिना ये भव्या मुनीन्-सुविहितान् अनुव्रजन्ति-अनुगमनं कुर्वन्ति ते शिवसौख्यानि-परमपदानन्दान् प्राप्नुवन्ति-लभन्त इति गाथार्थः । ऐहिकफलावाप्तिहेतुनिगमनमाह - इइ तिविहभेयजुत्तं, दाणं चिंतामणिव्व अइदुल्लहं । तह आराहह सम्म, भविया जह मूलदेवेणं ॥ २९॥ ___व्याख्या- इति-पूर्वोक्तयुक्तिप्रकारेण, त्रिविधभेदयुक्तं-चित्तवित्तपात्रसहितम्, दानं चिन्तामणिवदतिदुर्लभं भव्याः ! सम्यग्मनोवाक्कायैराराधयत-सेवध्वम् यथा-मूलदेवेन-वनराजपुत्रेण, सम्यगिदमाराधितमिति। यथा किल चिन्तामणिः स्वाराधितः सकलमनोवाञ्छितप्रदस्तथेदमपि स्वाराधितं सदखिलाभिलषितप्राप्तये स्यादिति गाथार्थः ॥६॥ . भावार्थस्त्वयम् , तथाहिसमस्तवस्तुविस्तारशस्तास्त्युज्जयिनी पुरी । दृश्यन्ते यत्र कादम्बाः सरोगा न तु मानवाः ॥ १॥ तत्राभूद्विक्रमाक्रान्तशात्रवः शिष्टतुष्टिकृत् । कर्तव्येन च नाम्ना च, विचारधवलो नृपः ॥ २ ॥ तस्यां च देवदत्तास्ति, वेश्या लावण्यसेवधिः । या मनोभूमहाराजराजधानीव जङ्गमा ॥ ३॥ तत्र सार्थपतेः पुत्रः प्रतिज्ञातार्थनिश्चलः । अचलो नाम यः श्रीणामेकमोकः समुद्रवत् ॥ ४॥ एकदा तां गवाक्षस्थां, सुरूपां विनिरूप्य सः । जगाम कामबाणानां तत्क्षणादेव लक्षताम् ॥ ५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org