________________
१७२
श्रीदानोपदेशमाला (गा.२८) कपटश्रावकीभूय, मिथ्याग्देवता तदा । मोदकान् दर्शयित्वा तान् लग्ना क्षोभयितुं मुनीन् ॥२८२॥ सापायं तं गिरि मत्वा, हित्वा च यतिभिर्युताः ।। श्रीवज्रगुरवो जग्मुः सानुमन्यमहीभृतः ॥२८३ ॥ तत्र सम्यग्दृशो देव्या गृहीत्वावग्रहं गुरुः । संपूर्यानशनं साधुसहितो दिवमासदत् ॥२८४ ॥ अस्मिन्नवसरे शक्रो रथारूढः सुरैर्वृतः । श्रीवज्रकालशैलं तं, प्रदक्षिण्यकरोन्मुदा ॥२८५ ॥ तत्राद्यापि द्रुमाः सन्तिं तद्रथाघातनम्रिताः । तदाद्ययं रथावतॊ भूधरश्चेति विश्रुतः ॥२८६ ॥ वज्रादीनामन्त्यकृत्यं प्रकृत्य त्रिदशेश्वरः । सौवर्णी तच्चितास्थाने स्तूपश्रेणी व्यधापयत् ॥२८७ ॥ तत्र वज्रगुरोर्मूर्ति पूजयित्वा सुमादिभिः । स्तवैः स्तुत्वा च देवेन्द्रो, जगाम त्रिदशालयम् ॥२८८॥ इति रत्नत्रयभूषितगात्रं वज्राचार्यसमानं पात्रम् । मत्वा तत्र च भक्तिविधानं कार्यं कृतिभिः सुकृतनिदानम् ॥२८९॥
॥ इति श्रीरुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां ____ श्रीदानोपदेशमालावृत्तौ सत्पात्रदानविषये श्रीवज्रस्वामिकथा समाप्ता॥ सत्पात्रवैषयिकं श्रीवज्रस्वामिचरित्रमुक्त्वा ईदृग्विधगुणगणोपेतं पात्रमासाद्य च विवेकिना किं किं विधेयं तस्मिंश्च कृते का फलावाप्तिः स्यादित्याह । अभिगमणमंसणेणं वंदणसक्कारपूयणेणं च । जे अणुवयंति मुणिणो ते सिवसुक्खाइं पावंति ॥ २८॥
व्याख्या-अभिगमः काले तदभिमुखं यानं, नमस्करणमान्तर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org