________________
१७१
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः इतश्च वज्रसेनाख्यं दुर्भिक्षे द्वादशाब्दिके । गच्छाव्युच्छित्तयेऽन्यत्र · व्यजीहरदरं गुरुः ॥२७० ॥ तदन्तेवासिनो भिक्षामविन्दन्तस्ततः परम् । वितीर्णं गुरुभिर्भोज्यमज्ञाना इव भुञ्जते ॥२७१॥ श्रीवज्रगुरवः प्राहुर्गीतार्थान् संयतानथ । वत्सा भविष्यति व्यक्तं, दुष्कालं द्वादशाब्दिकम् ॥२७२॥ कृतघ्नस्यास्य देहस्य कृते किं हार्यते व्रतम् । तस्माद् गत्वा क्वचित्तीर्थे गृह्यतेऽनशनं मुदा ॥२७३ ॥ एवमालोच्य तत्कालं कालं कर्तुं क्वचिद् गिरौ । यतिभिः कतिभिः साकं, सूनुर्धनगिरेरगात् ॥२७४ ॥ कञ्चिल्लघुमुनिं सार्धमागच्छन्तं बलादपि । संस्थाप्य कृपया ग्रामे, शैलमारुरुहुः स्वयम् ॥२७५ ॥ मा भूद् गुरोरसंतोषो मयि शैलोर्ध्वगामिनि । इतीव तदधः साधुः, क्षुल्लोऽनशनमग्रहीत् ॥२७६ ॥ स मुनिः सुकुमाराङ्गस्तपनातपतापितः ।। प्रालेयवन्निजेगिल्य, ससमाधिरगाद्दिवम् ॥२७७॥ अथाहपूर्विकया तान् समालोक्य दिवौकसः । किमित्यमी समायाता इति साधुभिरादरात् ॥२७८ ॥ पृष्टाः सूरिवराः प्रोचुस्तस्यानशनिनो मुनेः । स्वर्गतस्याङ्गसंस्कारकृतेऽत्रैते समैयरुः ॥२७९ ॥ युग्मम् ॥ मुनयः श्लाघयामासुस्तं साधु यदयं कृती । पश्चान्मुक्तोऽप्यभूदग्रेगा अस्मास्वखिलेष्वपि ॥२८० ॥ तत्पर्याप्तं प्रमादेन दुर्गदुर्गतिहेतुना । मत्वेति तेऽशनत्यागं विदधुः सूरिभिः सह ॥२८१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org