________________
१७०
श्रीदानोपदेशमाला (गा.२७) ऊ/कृत्य मुखं यावत्, विमानानि विहायसि । बौद्धाः स्मेरदृगम्भोजैः, पूजयन्त इव स्थिताः ॥२५८ ॥ तावत्तान्यर्हतां चैत्ये, गतानि विनिरीक्ष्य ते । हियाधोवदना जाताश्चपेटाभिर्हता इव ॥२५९॥ युग्मम्॥ ततः सहर्षाः श्रीजैना जृम्भकत्रिदशा अपि । श्रीमत्पर्युषणापर्व चक्रुरुत्सवपूर्वकम् ॥२६० ।। श्रीवज्राचार्यसूर्यस्य निरीक्ष्य परमोदयम् । भृशं निस्तेजसोऽभूवन् बौद्धास्तारागणा इव ॥२६१ ॥ पुष्पामोदोन्मदै दैर्भृङ्गा जिनगृहोपरि ।। श्रीवज्रस्वामिनः कीर्ति, गायन्त इव रेजिरे ॥२६२॥ सूरेरद्वैतमाहात्म्यं, तदालोक्य नरेश्वरः । सजनोऽजनि जैनेन्द्रशासने भक्तमानसः ॥२६३॥ तत्रैव वज्रः श्रीआर्यरक्षिताख्यं प्रतीच्छकम् । सार्धानि नवपूर्वाणि, पाठयाञ्चकृवान् प्रभुः ॥२६४ ॥ इत्थं प्रभावनाद्वैतराज्यं प्राज्यं प्रवर्तयन् ।। बोधयंश्च प्रजा वज्रो दक्षिणामगमद्दिशम् ॥२६५ ।। श्रीवज्रगुरवोऽन्येधुरकस्माच्छ्लेष्मबाधिताः । शुण्ठी ग्राह्या भोजनोर्ध्वमिति तां श्रवणे न्यधुः ॥२६६ ॥ ततस्तेऽपि कृताहाराः, स्वाध्यायध्यानतत्पराः । तथैव श्रवणस्थस्य, नागरस्य न सस्मरुः ॥२६७॥ नागरस्य-शुण्ठ्याः । कुर्वाणानां प्रतिक्रान्तिं ताडिता मुखवाससा । शुण्ठी पपात तन्नादात्तेऽपि तामस्मरन्निशि ॥२६८ ॥ प्रमादमदिरोन्मादो हहास्मान् बाधतेऽधुना । अतो वयं तनुत्यागात्साधयामः परं भवम् ॥२६९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org