SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १६९ दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः तत्राकृत्रिमचैत्यानि जिनानामभिनम्य सः । सिद्धैः समेत: श्रीदेव्या हदं पद्माभिधं गतः ॥२४६ ॥ तदन्तरे भ्रमभृङ्गवाचालं हंसमालितम् । श्रीदेव्याः सदनाम्भोजं स मणीमयमैक्षत ॥२४७॥ ततः पद्मकरा पद्मा जिनार्चनचिकीर्षया । प्रस्थिता वज्रमालोक्य सप्रमोदा ननाम तम् ॥२४८ ॥ तेनाप्याशिषि दत्तायां श्रीराहादिश मां विभो! । सोऽथो सहस्रपत्राब्जं तत्करस्थमयाचत ॥२४९ ॥ पद्मानि लक्षसंख्यानि यच्छामि यदि वः स्पृहा । अस्मादिन्द्रवनादित्थमुक्त्वा श्रीः कमलं ददौ ॥२५० ।। सूरयोऽपि हि तत्पद्मापद्ममादाय वेगतः । व्यावृत्य वह्निदेवस्य, राममाराममाययुः ॥२५१॥ विकृत्य सुरवत्सूरिर्विमानं रत्नभासुरम् । तदन्तरे न्यधत्त श्रीदत्तं पद्मं सुमैः समम् ॥२५२ ॥ पद्मस्याधः स्वयं तस्थौ, छत्रस्येव तले नृपः । स्मृतायाताः परिवत्रुस्तदैनं चाशु जृम्भकाः ॥२५३ ॥ प्रसर्पत्किङ्किणीक्वाणमुखरीकृतदिग्मुखम् । गेयानुसारिवादिननादनृत्यत्सुकिन्नरम् ॥२५४॥ देदीप्यमानं रविवद्विमानमधिरुह्य सः । जृम्भकैः सहितोऽचालीन्महापुरपुरं प्रति ॥२५५॥ युगलम् ॥ अथायान्ति विमानानि व्योमतो वीक्ष्य सौगताः । नृपं प्राहुरहो बौद्धोदयं पश्यत पश्यत ॥२५६ ॥ यजैनेभ्यो न्यषेध्यन्त पुष्पाणि नृपते! त्वया । तेन सौगतचैत्येषु, देवा आयान्ति हर्षतः ॥२५७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy