________________
१६८
श्रीदानोपदेशमाला (गा.२७) धनिनोऽथ जिनस्याङ्ग, लिप्त्वा सद्यक्षकर्दमैः । समाधिनार्चिचन् पञ्चवर्णे रत्नैः सुमैरिव ॥२३४ ॥ इत्थं जितद्विषोऽप्येते परमुत्कर्षवाञ्छया । समेते शासनाभीष्टे, श्रीपर्युषणपर्वणि ॥२३५ ॥ प्रसूनैरद्भुतैः पूजां कर्तुकामा जगद्गुरोः । प्रभावनाकरं वज्राचार्य व्यजिज्ञपन्निति ॥२३६॥ युग्मम् ॥ स्वामिन्! स्वाभाविकैः पुष्पैर्विना शोभां न गाहते । क्रियमाणापि देवार्चा ज्ञानशून्या क्रिया यथा ॥२३७॥ प्रभावकशिरोरत्ने, भगवंस्त्वयि जाग्रति । चेत्संघो न सहर्षस्तद्रवौ सति तमोभरः ॥२३८ ॥ तस्मात्प्रभो! समानीय सुमानि मुदमानतु ?(य) । यद्वा भानु विना कोऽन्यो जायते कोकशोकहत् ॥२३९ ॥ इति श्रुत्वा वचस्तेषां, सावद्यमपि पापहृत् । अतः सूरिरगान्माहेश्वरीपुरि नभोऽध्वना ॥२४० ॥ तत्रोद्यानेऽग्निदेवस्य मालिकस्तडिताभिधः । मित्रं धनगिरेरस्ति सूरिस्तेन च संगतः ॥२४१॥ सोऽपि सूरीश्वरं दृष्ट्वा, नत्वा चेति व्यजिज्ञपत् । प्रभो! कृत्यं ममाख्याहि यथा स्यां पुण्यभाजनम् ॥२४२ ॥ श्रीवज्रोऽपि तमाचख्यौ संघादेशादुपागतः । पुष्पार्थं त्वं च तद्दाने, क्षमो माधवमासवत् ॥२४३ ॥ सोऽप्यूचे विंशतिर्लक्षाः सुमानां स्युरिह प्रभो! । यथेच्छं तानुपादाय मामत्यर्थं कृतार्थय ॥२४४ ॥ पुष्पाणि प्रगुणीकार्याणीत्थमुक्त्वा तु मालिकम् । ततः स्वयं गुरुः क्षुद्रं, हिमवत्पर्वतं ययौ ॥२४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org