________________
१६७
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः पटेन व्योमगं वीक्ष्य, श्रीवजं संघसंयुतम् । केशान् क्लेशानिवोन्मूल्य सोऽवादीदिदमूर्ध्वदृक् ॥२२२ ॥ पूर्वं शय्यातरोऽभूवम्, अतः साधर्मिकोऽधुना । तदनाथमिव त्यक्त्वा, मां मा याहि कृपानिधे! ॥२२३ ॥ तद्वाक्यमिदमाकर्योत्खातकेशं तमीक्ष्य च । श्रीवज्रसूरयोऽप्येवं, सिद्धान्तार्थमचिन्तयन् ॥२२४ ।। ये स्वाध्यायपराः साधर्मिकाश्चरणधारिणः । प्रभावकाश्च ते तार्याः, सर्वशक्त्या मनीषिभिः ॥२२५ ॥ ततः श्रीसूरिणा शय्यातर आरोपिते सति । पटश्चचाल वेगेने धनुर्मुक्त इवाशुगः ॥२२६ ॥ चित्रयन् संघचेतांसि स्तूयमानोऽम्बरे सुरैः । भूरिसौगतलोकाढ्यं, पुरं प्राप. महापुरम् ॥२२७ ॥ तस्मिन् देशे सुभिक्षाढ्ये सूरिपादप्रसादतः । श्रीसंघो धर्मकर्माणि निष्प्रत्यूहमसाधयत् ॥२२८॥ अथ ताथागतानां च जैनानां च परस्परम् । धर्मद्वेषाद्विरोधोऽभूदहीनां केकिनामिव ॥२२९ ॥ पुष्पादिपूजानिर्माणैरुत्सवैश्च नवैर्नवैः ।। रञ्जयन्तः प्रजाः श्राद्धा, बौद्धलोकान् विजिग्यिरे ॥२३०॥ त्वयि भक्तेऽपि शक्तेऽपि, राजस्ताथागता वयम् । पराभूयामहे जैनैरित्यूचुस्ते विशांपतिम् ॥२३१॥ भूपोऽपि मालिकान् सर्वान्, समाहूयेत्थमादिशत् । यज्जैनेभ्यो न दातव्यं, पुष्पमात्रमपि क्वचित् ॥२३२ ॥ ततः काञ्चनकोटीभिरपि जैना जना न हि । पुष्पमात्रमपि प्रापुरभव्या इव निर्वृतिम् ॥२३३ ॥ * समीक्ष्य तम् इति संगतं भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org