________________
१६६
श्रीदानोपदेशमाला (गा.२७) अथो विहारमासूत्र्य, पूर्वदेशेषु सर्वतः । श्रीवज्रसूरयः प्रापुः क्रमेण दिशमुत्तराम् ॥ २१० ॥ तदा तत्र महारौद्रे दुर्भिक्षे भिक्षुसंकुले ।। संघो युगप्रधानं श्रीवज्रमेवं व्यजिज्ञपत् ॥ २११ ॥ प्रभो! कराले दुष्काले रङ्ककङ्कालसंकुले । धर्मकर्मकुलाचारांस्तत्यजुर्धनिनोऽपि हि ॥२१२ ॥ ध्यायन्ति केवलं धान्यध्यानं धनिजना हृदि । परात्मनीव दृष्टेऽस्मिन्, भजन्ते च मुदां पदम् ॥२१३ ॥ आहन्यमाना यष्ट्यापि रङ्कलोकाः क्षुधार्दिताः । पतन्ति भिक्षुभिक्षास्वपि वृकौघा अजास्विव ॥२१४॥ मुनीन् भिक्षार्थमायातो वीक्ष्य श्राद्धकुटुम्बिनः । मितम्पचा इव द्वारस्थगनं परितन्वते ॥ २१५ ॥ तस्मादस्मात्समुद्धां, कान्तारात्संघमर्हसि । नाथ! त्वदन्यो नैवास्ति, शासने लब्धिमान् यतः ॥२१६ ॥ एवं तद्वाक्यमाकर्ण्य, भगवानप्यचिन्तयत् । संघकार्ये नियोक्तव्या, विद्येति जिनजल्पितम् ॥२१७ ॥ ततः स साधुचक्रीशः समुत्तारयितुं नरान् । विचकार पटं स्फारं, चर्मरत्नमिव द्रुतम् ॥२१८॥ श्रीसंघसहितः सूरिरुपविश्य तदन्तरे ।। आकाशगामिनी विद्यामनवद्यामयुत सः ॥२१९ ॥ श्रीमतामर्हतां मार्गस्यौन्नत्यं ख्यापयन्निव । पटः पवनमार्गेऽसावचालीदचलादलात् ॥२२० । तदा शय्यातरः सूरेर्द्विजन्मा दत्तनामकः । गतो बभूव गोश्चारिकार्ये वकालमाययौ ॥२१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org