________________
१६५
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः तत्प्रसद्य प्रपद्यामूं यौवनं सफलीकुरु । विज्ञा विज्ञापनां जातु, विफलीकुर्वते न हि ॥ १९८॥ स्वामिनिस्सीमधामस्ते रत्नकोटीरनेकशः । वितरिष्यामि रुक्मिण्याः पाणिमोचनपर्वणि ॥ १९९॥ धनोक्तमिदमाकर्ण्य वज्रप्रभुरभाषत । श्रेष्ठिन्नज्ञानधुर्योऽसि यदेवं मत्पुरोऽवदः ॥ २०० ॥ आ शैशवान्मया मुक्ता भोगाभोगा इवाहिताः । बुभुक्षुस्तांश्च भोः! श्वेव, वान्ताशी किं भवाम्यहम् ॥२०१॥ अनन्तसुखसंपत्तिसुभगां संयमश्रियम् ।। परिणीयापरां नारों क इच्छेद् दुर्गतेः पदम् ॥२०२ ॥ यद्येषा धन! ते कन्या मयि प्रेमपरा तदा । चिन्तामणिमिवादत्तां मद्धितं श्रमणव्रतम् ॥२०३॥ संयोगैः किं वियोगान्तैः, किंपाकास्वादसोदरैः । परं परपदानन्दसंपदे यत्यते बुधैः ॥२०४॥ महामोहविषध्वंसि, सूरेरिति वचोऽमृतम् । निपीय रुक्मिणी सद्यः, प्रपेदे व्रतमार्हतम् ॥२०५॥ सत्यं वज्रः करेऽग्राहि, विज्ञया धनकन्यया । नो चेदसौ कथंकारमभिनन्मोहभूधरम् ॥२०६॥ तदा वज्रोपदेशाब्दैः, सिक्ता भव्यजनद्रुमाः । व्रतसच्छायतां प्राप्य, फेलुः शिवफलैर्न कैः ॥२०७॥ आकाशगामिनी विद्यामथ श्रीवज्रसूरयः । महापरिज्ञाध्ययनादुद्दध्रुः संघहेतवे ॥२०८॥ विद्येयं मानवक्षेत्रं, यावत्संचरणक्षमा । न कस्मैचित्प्रदेयेति, वज्रः संघपुरो जगौ ॥२०९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org