________________
१६४
श्रीदानोपदेशमाला (गा.२७) अयमप्रतिबद्धश्चेद् गमिष्यत्यविवाह्य माम् । तन्मयापि वियोगिन्या कृशानुः स्वीकरिष्यते ॥ १८५ ।। इत्याख्यातो धनश्रेष्ठी, सर्वाङ्गीणविभूषणाम् ।। रुक्मिणी धनकोट्या चानैषीद्वर्षिसंनिधौ ॥ १८६ ॥ मा पौरनारीविक्षोभो, भवेदिति यतिप्रभुः । शैलूष इव रूपं स्वं, परावृत्य समस्थित ॥१८७ ।। कलाविलासिनमपि, कलावन्तमिव क्षितौ । विधात्रामुं कुरूपाङ्गं, सृजताहारि हा यशः ॥ १८८॥ इति ज्ञानेन विज्ञाय, जनानां जल्पनं मिथः । श्रीवज्रः सहजं रूपमग्रहीद्विश्वचित्रकृत् ॥ १८९ ॥ स हेमाम्भोजमध्यास्योदयाचलमिवार्यमा । उपदेशप्रकाशेन, सच्चक्राणां तमोऽहरत् ॥ १९० ॥ अहो स्वाभाविकं रूपं, प्रभूणां स्मरजित्वरम् । इति जल्पन् जनोऽमज्जदानन्दामृतसागरे ॥ १९१॥ यथा स्वस्वान्तमुद्रायां वज्रवज्रं न्यवेश्यत । धन्यैव मम कन्येयमिति दध्यौ धनो हृदि ॥ १९२ ॥ व्याख्यान्ते स समुत्थाय, संयोज्य करकुड्मले । प्रणत्य च पदाम्भोजमिति वज्रं व्यजिज्ञपत् ॥ १९३ ।। परपुष्टेव माकन्दं राजहंसीव मानसम् । त्वामेव देव! ध्यायन्ती, पाणिग्रहणहेतवे ॥ १९४ ।। वरानपि वरानन्यान् सुभगान् दुर्भगानिव । निषेधयन्तीयत्कालं रुक्मिणी मत्सुता स्थिता ॥ १९५॥ युग्मम् ॥ त्वदेकशरणामेतामवजानासि चेद्विभो! । तदसौ त्वद्वियोगार्ता कर्ता स्वं भृशमग्निसात् ॥ १९६ ॥ स्त्रीजातिं भूषयत्येषा पुंजातिं च भवान् विभुः । तद्वां सङ्गमतो धाता, स्यादवन्ध्यविधिश्रमः ॥ १९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org