________________
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्त:
१६३ प्रभाप्रभावतोऽगण्यलावण्यरससागरान् । फडके फड्डके साधूनालोक्य वसुधाधवः ॥१७४ ।। फडके फडके-वृन्दे वृन्दे । अयं वज्र उतायं वा, संशीतिमिति धारयन् । को भवत्सु भवध्वंसी, गुरु: पप्रच्छ तानिति ॥ १७५ ॥ युग्मम् ॥ मुनयोऽप्याहुरस्मासु, खद्योतनिकरेष्विव ।। वज्राचार्यस्य सूर्यस्येव राट् ! कस्ते मनोभ्रमः ॥ १७६ ।। एतेषु मुनिवृन्देषु, तारकाणां गणेष्विव । राजन्! राजेव यो भाति विद्याः श्रीवज्रमेव तम् ॥ १७७ ॥ विद्याः-जानीयाः । अथ श्रीवज्रमाचार्यमायान्तं दूरतो नृपः । साधुभिः कलभैर्युक्तं, गजराजमिवैक्षत ॥ १७८ ॥ भक्त्या भूपोऽनमद्वजं तस्य चाङ्घिरजःकणाः । श्रीविशाले महीपालभाले तिलकतां गताः ॥ १७९ ॥ राजादिजनसंसेव्याः श्रीमन्तो वज्रसूरयः । पुरोधानमलंकृत्य, दिदिशुधर्मदेशनाम् ॥ १८० ॥ तथाहि- सदानमूलोऽमलशीलशाखस्तपोविधानाद्भुतचित्रपत्रः । भावप्रसूनः सुकृताख्यशाखी, श्रेयःफलो हृद्भुवि रोपणीयः ॥ १८१ ।।
(उपजाति:) इत्यादिदेशनावाणीपीयूषास्वादमेदुराः। राजाद्या वर्णयन्तस्तान् जग्मुर्धाम निजं निजम् ॥ १८२ ।। ततः शुद्धान्तवध्वोऽपि श्रुत्वा तद्रूपवैभवम् । भूपालेनाभ्यनुज्ञाता नन्तुं सूरीश्वरं ययुः ॥ १८३ ।। शुद्धान्तवध्वः-अन्तःपुरस्त्रियः । तदा धनाङ्गजापि श्रीवज्रमीक्षितुमुत्सुका । स मे समेतो जीवेश इत्याह पितरं प्रति ॥ १८४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org