________________
१६२
तस्मिन्महोत्सवे वज्रसुहृदो जृम्भकामराः । तेनुः सुमनसां वृष्टिं, सृष्टिं तद्यशसामिव ॥१६१॥ ततः सिंहगिरिः सूरिर्विहितानशनक्रियः । योगनिश्रेणिमार्गेणारुरोह स्वर्गमन्दिरम् ॥ १६२॥ अथ श्रीवज्रनामानः सूरयो गुणसूरयः । साधुपञ्चशतीयुक्ता व्यहरन्नवनीतलम् ॥१६३ ॥ श्री वज्रस्वामिनो यत्र यत्रातिशयशालिनः विजहुस्तत्र तत्रैव, जनो हर्षमयोऽजनि ॥ १६४ ॥ इतश्च पाटलीपुत्रे वज्रस्य व्रतिनीजनः । श्रीधन श्रेष्ठिनो यानशालायां समवास्थित ॥१६५॥ तस्यास्ति रुक्मिणीपुत्री, रुक्मिणीरूपजित्वरी । सा च साध्वीसमायोगाद्विवेकास्पदतां गता ॥१६६॥ श्रीवज्रस्वामिनः शीललावण्यादिगुणामृतम् । साध्वीमुखारविन्देभ्यः पीत्वा रागं बभार सा ॥१६७॥ मुग्धा साध्वीसमक्षं च प्रतिज्ञामकरोदिति । वज्रमेव पतीयामि रुक्मिण्याः खल्वियं स्थितिः ॥ १६८ ॥ विरक्तचित्ते श्रीवज्रे मरावाम्रफलादने । पिक्या इव मुधा मुग्धेऽभिलाषस्ते विलोक्यते ॥१६९ ॥ इत्यार्यिकाभिरुक्ता सा पुनः प्राहेति रुक्मिणी । हे तपस्विन्य आजन्म, शरणं वज्र एव मे ॥१७० ॥ परमात्मनि योगिन्या, इव रत्या इव स्मरे । धनपुत्र्या मनोवृत्तिर्लग्ना वज्रमुनीश्वरे ॥ १७१ ॥ वज्रार्थिन्या तया रूपस्मरोऽपि न परो वरः दृशापि ददृशे हंसपल्या काकोलबालवत् ॥ १७२ ॥ अथ श्रीपाटलीपुत्रे, वज्राचार्यान् समीयुषः । श्रुत्वा सहर्षं भूपालः सपौरः संमुखं ययौ ॥ १७३ ॥
श्रीदानोपदेशमाला (गा. २७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org