________________
१६१
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः तन्मन्येऽद्यातिथिः कोऽपि साधुरेष्यति धीधनः । दशपूर्वी ससूत्रार्थां, यो मत्पााद् ग्रहीष्यति ॥१४९ ॥ तस्माद् धन्येषु मे रेखा, यदेषा दशपूर्विका । नूनं सत्पात्रयोगेन मय्युच्छेदं न यास्यति ॥१५० ॥ इत्थं सुप्तोऽत्थितः सूरिर्यतीनां पुरतो जगौ । प्रातस्तद्वसतौ वज्रश्चागान्नैषेधिकी ब्रुवन् ॥१५१ ॥ प्रायो वज्रं विना नान्य ईदृग्लावण्यवान् मुनिः । इति ध्यात्वा मनस्युच्चैर्गुरवो मुदमादधुः ॥१५२ ॥ यावदालिङ्गितुं सूरिः, कराभ्यामेनमीहते । तावद्वज्रोऽपि तत्पादपद्मे भृङ्ग इवालगत् ॥१५३ ॥ तेऽपि वज्रसमायोगजातरोमाञ्चकञ्चकाः । व्रतकृत्येषु कल्याणं, तं पप्रच्छुः प्रमोदतः ॥१५४॥ वत्स! स्वच्छमते! हित्वा गुरूणां पदपङ्कजम् । किं ते मालवदेशेषु विहारकरणोद्यमः ॥१५५ ॥ इत्युक्तो गुरुणा सोऽपि, नम्रमौलिरदोऽवदत् । विभो! गुर्वाज्ञयाध्येतुं, दशपूर्वीमिहागमम् ॥१५६ ।। सा च सिन्धाविव सुधा त्वय्येव वसति प्रभो! । तत्पानदानतस्तृष्णां, कृत्स्नां छिन्द्धि प्रसद्य मे ॥१५७ ।। तत्प्रश्रयोक्तियुक्त्या ते सानन्दाः सूरयस्ततः । श्रीवजं दशपूर्वाणि पाठयाञ्चक्रिरेतराम् ॥१५८॥ अधीतपूर्वी वज्रोऽपि, भद्रगुप्तप्रसादतः । पुनर्दशपुरं प्राप, नन्तुं सिंहगिरीन् गुरून् ॥१५९॥ अथ वज्राय ते हृष्टाः सूरयो दशपूर्विणे । पूर्वानुज्ञान्वितां गच्छानुज्ञां विज्ञतमा ददुः ॥१६० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org