________________
१६०
श्रीदानोपदेशमाला (गा.२७) अथाचार्या बहिर्दामादागम्य कतिचिद्दिनैः । पप्रच्छुर्वाचनासौख्यं मुनीन्मधुकिरा गिरा ॥१३७॥ तेऽपि व्यजिज्ञपन् सूरीनस्माकं वाचनागुरुः । प्रसद्य दीयतामेष, एव बोधनलब्धिमान् ॥१३८ ॥ यदेष श्रुतपारीणोऽवज्ञया ददृशे पुरा । तत्पातकमिदानीं वः पुर आलोचयामहे ॥१३९ ॥ गुरवोऽप्यूचिवांसो वो बोधायेदं प्रदर्शितम् । अननुज्ञातसूत्रोऽयं नोचितो वाचनां प्रति ॥१४० ॥ ततस्तस्मै निजाधीतश्रुतपारङ्गताय ते । उत्सारकल्पमाचख्युः सिद्धान्तस्थितिहेतवे ॥१४१ ।। विहरन्तोऽन्यदाचार्या, गत्वा दशपुरं पुरम् । विचार्य हृदये किञ्चिद्वजं सानन्दमादिशत् ॥१४२॥ वत्स ! श्रीभद्रगुप्ताख्याः सांप्रतं दशपूर्विणः । विहरन्तो हरन्तोऽघमवन्त्यामागताः श्रुताः ॥१४३॥ तेषां शिष्यो न चास्माकं, त्वां विनान्योऽस्ति कश्चन । यः पूर्णदशपूर्वाणि स्वात्मसात्कुरुतेतराम् ॥१४४ ॥ तद्वत्सोज्जयिनीं गत्वा, तान्यधीष्व तदन्तिके । पठतस्ते च साहाय्यं कर्त्यः शासनदेवताः ॥१४५ ।। इति प्रपद्य गुर्वाज्ञां, सौनन्देयो मुदा मुनिः । यतियुग्मयुतोऽचालीत्सूर्यवत्सौम्यशुक्रयुक् ॥१४६ ।। मार्गमुल्लङ्घ्य सन्ध्यायां वज्रोऽवन्त्या बहिःस्थितः । तदा रात्राविति स्वप्नो भद्रगुप्तैरदृश्यत ॥१४७॥ कोऽपि प्रतीच्छकोऽद्यर्षिरेत्यास्मत्करकोशतः । पतद्ग्रहं पयःपूर्णमादायातृप्त्यपाल्लघु ॥१४८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org