________________
१५८
पततोऽम्भः कणानीक्ष्य व्यावृत्तोऽवद्यभीतितः । ज्ञात्वा चावस्थितां वृष्टिं भूयः स सह तैर्ययौ ॥११३॥ तत्र तार्णकुटीरेषु भोज्यान्यकालिकान्यलम् । विलोक्य विस्मितो द्रव्याद्युपयोगमदान्मुनिः ॥११४॥ समयेऽस्मिन्नसंभाव्यं विभाव्येति तदानने । निर्निमेषदृशौ दृष्ट्वा विबुधांस्तानबुद्ध सः ॥११५॥ देवपिण्डो ह्यकल्प्योऽयमतो व्याववृते व्रती । तद्वृत्ततुष्टाः प्रकटीभूय देवास्तमस्तुवन् ॥ ११६ ॥ नमस्ते जैनसिद्धान्तसुधासिन्धो ! क्षमानिधे ! । श्रीवज्र ! वज्रजिद्धैर्याप्रमादिमुनिसत्तम ! ॥ ११७ ॥ इति स्तुत्वा सुरास्तस्मै लब्धिं वैक्रियिकीं ददुः । तद्वृत्तश्रवणाद् बाढं, गुरवोऽपि चमत्कृताः ॥११८॥ वणिग्भूयान्यदा ज्येष्ठे मासि तैरेव जृम्भकैः । घृतपूरप्रदानाय, पुनर्वज्रो न्यमन्त्र्यत ॥ ११९ ॥ पूर्ववद् देवपिण्डोऽयं ज्ञात्वेति वलिते मुनौ । ते नभोगामिनीं विद्यां तस्मै दत्त्वा तिरोदधुः स पठद्भ्यो मुमुक्षुभ्यः श्रुत्वा प्रज्ञाबलादलम् । एकादशाङ्गीं सोपाङ्गां वज्रो वज्रोपमां व्यधात् प्रेरितोऽध्येतुमाचार्यैः स्वां प्रज्ञामप्रकाशयन् । तदुक्तस्यानुवादित्वं केवलं स्वीचकार सः ॥ १२२ ॥ विहर्तुं यतिभिः प्राप्ते आचार्ये च बहिर्भुवम् । एकाकी पौषधागारे, तस्थौ वज्रर्षिरेकदा ॥१२३॥ पाठस्थानेषु साधूनां क्रमाद् विन्यस्य वेष्टिकाः । वज्रः प्रारब्धवान् दातुं, वाचनां गुरुवत्स्वयम्
॥ १२० ॥
॥१२१॥
॥१२४॥
श्रीदानोपदेशमाला (गा. २७)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org