SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः तत्तेनोपाददानेन, हेलया बालहेलिना । ॥ १०३ ॥ ॥ १०४॥ ॥ १०५ ॥ चक्रे संघाम्बुजं स्मेरं, म्लानं च जननीकुवम् ॥ १०१ ॥ कपोलतलविन्यस्तहस्ता कृत्वा मनो दृढम् । सुनन्दा विगतानन्दा चेतस्येवमचिन्तयत् ॥ १०२ ॥ पूर्वं भ्राता ततो भर्त्तातः परं च तनूद्भवः । प्राव्राजिषुरतो गेहवासे किमु फलं मम ततः सुनन्दा विच्छायवदनागान्निजं गृहम् । हृष्टा वज्रं गृहीत्वागुर्मुनयोऽपि स्वमाश्रयम् संघोन्नतिकरं वज्रं भावद्रव्यानगारिणम् । श्रीसूरयोऽर्पयामासुः साध्वीभ्यः पुनरप्यमुम् वैराग्यतः सुनन्दापि दीक्षामक्षीणसम्पदम् । श्रीसिंहगिरिसूरीणां पदमूले समाददे ॥ १०६ ॥ लब्ध्या पदानुसारिण्यैकादशाङ्गीरसं मुदा । साध्वीमुखारविन्देभ्यो वज्रो भृङ्ग इवापिबत् अथाष्टवार्षिकं दीक्षाजुषं वज्रमृषीश्वराः । सहादाय विजहुः श्रीअवन्तीनगरीं प्रति ॥ १०८ ॥ मार्गान्तराले तन्वाने, वृष्टिं धाराधरे सति । सूरयोऽप्कायरक्षायै क्वाप्यस्थुर्यक्षमन्दिरे ॥१०९॥ श्रीवज्रस्य पुराजन्मसुहृदो जृम्भकाः सुराः । तत्सत्त्वस्य परीक्षार्थं, वृष्टिमल्पां वितेनिरे ॥११०॥ आवासितं महासार्थं ते विकुर्व्य स्वयं पुनः । नैगमीभूय सूरीन्द्रान् प्रणत्येति व्यजिज्ञपन् ॥१११॥ वज्रोऽयं प्रातराशाय सार्थे नः प्रेष्यतां प्रभो ! । गुर्वादिष्टः स भिक्षार्थं श्रीवज्रस्तैः समं गतः ॥ ११२॥ ॥ १०७॥ Jain Education International For Personal & Private Use Only १५७ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy