________________
१५६
श्रीदानोपदेशमाला (गा.२७) वृषैरिभैरथैरश्चैहँसैः कोकैर्बकैः शुकैः । मृगैश्च क्रीडनं कुर्वन्ममोल्लासय मानसम् ॥ ८९॥ तात! ते मुखचन्द्रस्य, भवामि नियतं बलिः । न्युञ्छनं चाक्षियुग्मस्य, तदेत्योज्जीवयाशु माम् ॥ ९० ॥ मा मां दीनाननां मुञ्च वत्स ! स्वच्छमते ! प्रसूम् । गर्भाधारणपोषणादात्मानमनृणीकुरु ॥ ९१ ॥ यद्यपि त्वं विरक्तोऽसि, तथाप्येत्यैकदा सुत!। एकाकिनीमनाथां मां सनाथीकुरु सत्कृप! ॥ ९२ ॥ एवं मातृवचोवृन्दैः पटुचाटुपरैरपि ।। वज्रस्य न मनोऽभेदि, वज्रस्येवोग्रहेतिभिः ॥ ९३ ॥ ततो वज्रो निजे चित्ते, चिन्तयामासिवानिति । यत्सती जननी मान्या, गौरवैर्जनकादपि ॥ ९४ ॥ क्रियमाणे प्रसूवाक्ये श्रीसंघोल्लङ्घनं भवेत् । तस्मिंश्च विहितेऽनन्तभवाम्भोधिनिमज्जनम् ॥ ९५ ॥ परमाराधयन् संघं करिष्ये जननीहितम् । यतः सा मद्वियोगार्ता व्रतमादास्यते द्रुतम् ॥ ९६ ।। एवं विचारचातुर्यमहार्यं हृदि स स्मरन् । न्यधान्मातरि नो दृष्टिं, मध्याह्ने रविमूर्त्तिवत् ॥ ९७॥ ततो धनगिरिः पृथ्वीपतिना प्रेरितः सुधीः । धर्मध्वजं तत्त्वमिव करे कृत्वेत्यभाषत ॥ ९८॥ हे वत्स! यदि वाञ्छास्ति, श्रामण्यग्रहणे तव । तदा मुक्त्यङ्गनादूतीमङ्गीकुरु रजोहतिम् ॥१९॥ इदमाकर्ण्य कर्णाभ्यां वज्र उत्प्लुत्य वेगतः । रजोहरणमादत्त, शिवकल्पलताफलम् ॥ १०० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org