________________
१५५
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः अथ तुम्बवनस्थाने वज्रे जाते त्रिवार्षिके । मुनयो धनगिर्याद्या विहरन्तः समैयरुः ॥ ७७॥ तदा धनगिरेः पार्थात्सुनन्दा नन्दनं निजम् । न्यासीकृतं निधिमिव ययाचे स्नेहमोहिता ॥ ७८॥ महात्माह मुधा मुग्धे! प्रलापं कुरुतेतराम् । दत्त्वा ससाक्षिकं सूनुं, याचमाना न लज्जसे ॥ ७९ ॥ सापि प्राह तदा पृष्टो न मया स्वजनो जनः । अतस्तदननुज्ञातं सुतं मे को जिघृक्षति ॥ ८० ॥ सुनन्दाया मुमुक्षोश्च पक्षौ वादचिकीर्षया । वज्रमादाय संप्राप्तौ भोजभूजानिपर्षदि ॥ ८१ ।। राज्ञापि दक्षिणे पार्श्वे श्रीसंघ उपवेशितः । दक्षिणेतरपार्श्वे च, सुनन्दायाः सुतोऽभवत् ॥ ८२॥ पक्षद्वयस्य वाक्यानि, श्रुत्वा भूपो जगाविदम् । यस्याकारित एत्येष शिशुस्तस्येति मे मतम् ॥ ८३ ॥ अस्मिन्याये भुवो भर्तुरुभाभ्यां संमतीकृते । स्त्रीपक्षीयास्तदा पूर्वं नृपमेवं व्यजिज्ञपत् ॥ ८४॥ देवायं व्रतिनीमध्ये वृद्धिमाप नवेन्दुवत् । अतस्तदनुगं सूनुमादावाह्वयतु प्रसूः ॥ ८५॥ ओमित्युक्ते विशां पत्या सुनन्दानन्दमेदुरा । बाललोभनयोग्यानि वस्तून्यग्रे न्यवेशयत् ॥ ८६ ॥ ततो माता मरालीव सत्पक्षोल्लासशालिनम् । सुधामधुरया वाचा बालहंसं समाह्वयत् ॥ ८७॥ एहि वत्स! ममोत्सङ्गसरो भूषय हंसवत् । भोज्यान्येतान्युपादत्स्व, यच्छातुच्छां मुदं तथा ॥ ८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org