________________
१५४
श्रीदानोपदेशमाला (गा.२७) अद्यापि भविता कोऽपि, लेपांश इति साहसात् । स भोज्यान्ते सरित्तीरमगात्पौरनरैर्वृतः ॥ ६५ ॥ तापसेन तप:शक्त्या, नामिताः श्रावका अपि । श्रुत्वेति भोजभूजानिस्तस्य पार्श्वमुपागतः ॥ ६६ ॥ सूरयोऽपि तदा तत्र जैनधर्मसमुन्नतिम् ।। चिकीर्षवः कुदृग्मार्गनिरासाय समैयरुः ॥ ६७ ॥ अहो पश्यत माहात्म्यं, तापसेन्द्रस्य संप्रति । यदसौ हंसवत्पद्भ्यां, तरिष्यतितरां नदीम् ॥ ६८॥ इत्युद्दीपकवाक्यैः, स प्रेर्यमाणो जनवजैः । दृषत्खण्ड इवामज्जद् भीतोऽपि त्रपया जले ॥ ६९ ॥ तं नद्यां बुडितं दृष्ट्वा हस्ततालापुरःसरम् । जहास जनता सर्वा विब्रुवाणेति भारतीम् ॥ ७० ॥ अहो कथं तापसेन दम्भेन तरता नदीम् ।। वयं मुषितसर्वस्वाश्चौरेणेव विनिर्मिताः ॥ ७१ ।। इतश्च कूलिनीकूलं सूरयोऽभ्येत्य सत्वरम् । भोजभूपजनाध्यक्षमाख्यन्नित्यद्भुतं वचः ॥ ७२ ॥ वत्से! कूलिनि! पन्थानं यच्छ सावधवर्जितम् । यियासवः स्मस्ते पारं संसारस्येव निर्ममाः ॥ ७३ ।। शिवयोरिव तत्कालं, कूलयोर्मेलमीयुषोः । सूरिः ससंघभूजानिजनः प्राप परं तटम् ॥ ७४॥ गुरुमाहात्म्यमालोक्य संघो हर्ष नृपादयः । सम्यक्त्वं तापसाश्चापि, दीक्षामवितर्मुदा ॥ ७५ ॥ तत्र ब्रह्माभिधे द्वीपे, यैरग्राहि व्रतिव्रतम् । ब्रह्मदीपिकाशाखाभूत्तेभ्यः समयविश्रुता ॥ ७६ ।। * दीक्षामवतेरुर्मुदा इति संगतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org