________________
१५३
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः श्रावकास्तत्कृतां निन्दां, नत्वा सूरीन् व्यजिज्ञपन् । तेऽपि ज्ञानेन तद्युक्तिं, ज्ञात्वा तानेवमादिशन् ॥ ५२ ॥ शक्तिस्तपोमयी का स्यादज्ञाने तापसब्रुवे । किन्तु केनापि लेपेन, मूढानाश्चर्ययत्ययम् ॥ ५३॥ तस्मादमुष्य विज्ञानलेशे श्रावकपुंगवाः!। विस्मयं मा कुरुध्वं नः कुरुध्वं चेति भाषितम् ॥ ५४॥ स निमन्त्र्य निजे गेहे, तस्य चाङ्ग्री सपादुकौ । प्रक्षालनीयौ नीरेण भक्तिदम्भात्पुनः पुनः ॥ ५५ ॥ जैनापभ्राजनाभेत्त्री मायापि हितहेतवे । अतो भवद्भिरादेशः प्रमाणीक्रियतामयम् ॥ ५६॥ ओमिति प्रतिपद्याथ श्राद्धाः श्रद्धाभरादिव । तं तापसं समभ्यर्थ्य भोजनार्थं न्यमन्त्रयन् ॥ ५७॥ सोऽपि तद्भक्तिसञ्जातहर्षः पौरजनान्वितः। एकस्य श्रावकस्यौकोऽभ्यगादुत्सवपूर्वकम् ॥ ५८॥ तेऽप्याहुरद्य धन्याः स्मो युष्मदागमनादतः । सिंहासनमलङ्कृत्य, भगवन्नः कृतार्थय ॥ ५९॥ नूनमस्मद्गृहे शान्तिर्भविता त्वत्पदोदकात् । इति ब्रुवाणाश्चाटूनि, ते पानीयमढौकयन् ॥ ६० ॥ अनिच्छतोऽपि तस्यामी, तथा प्राक्षालयन् पदौ । यथा लेपस्य लेशोऽपि, नास्थान्मार्जितपात्रवत् ॥ ६१॥ यथा यथा क्रमौ तस्य, श्राद्धा लिम्पन्ति चन्दनैः। तथा तथास्य हृदयं, चित्रं ज्वलति वह्निवद् ॥ ६२ ॥ तेऽपि तं भोजयन्ति स्म, भोज्यं सरसमादरात् । यद्वा स्वसाध्यसिद्ध्यर्थं स्कन्धे नारोप्यते खरः ॥ ६३ ॥ स स्वाहिलेपनाशेन, नदीबुडनशङ्कितः। नाज्ञासीद् भोजनास्वाद, मन्दः सूक्तरसं यथा ॥ ६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org