________________
१५२
श्रीदानोपदेशमाला (गा.२७) स्तन्यपानस्नानभूषाविलेपनकक्रीडनैः। स्वपुत्रमिव तं बालमपुषच्छाविकाजनः ॥४०॥ पुण्याभिरेव क्रीडाभी रममाणो निरन्तरम् । प्रासुकान्नं च भुञ्जानः साध्वीनां सोऽहरन्मनः ॥४१॥ सुनन्दापि तमालोक्य सत्रागारमिव श्रियाम् । पुत्रोऽयमिति मे श्राद्धानयाचत पुनः पुनः ॥४२॥ तैरप्यूचे न जानीमो घटनां युवयोरिमाम् । गुरूणां किन्त्वयं न्यासोऽस्मास्वतः पाल्यतेतराम् ॥४३॥ तैरेव न्यक्कृता गाढं, सुनन्दानन्दवर्जिता। तमालुलोके दूरस्था स्तेनीवान्यौकसो धनम् ॥४४॥ सुनन्दा वत्सवात्सल्यविवशा श्रावकाश्रये । कदाप्यागत्य धात्रीव स्तन्यपानमकारयत् ॥ ४५ ॥ अथाचलपुरासन्नतटिनीद्वितयान्तरे । कन्यापूर्णाह्वयं तीर्थं, विद्यते तापसाश्रितम् ॥ ४६॥ तेष्वेकस्तापसो लेपविद्यां विन्यस्य पादुके । पदोरगाधपानीये बम्भ्रमीति बकोटवत् ॥ ४७॥ स नित्यमुत्तरन्नित्थं सरितं लेपविद्यया। मुग्धानाश्चर्ययाञ्चक्रे, शक्रजालिकवन्नरान् ॥ ४८॥ सोऽन्यदा प्राह हे श्राद्धाः! शासने भवतामपि । विद्यते मादृशः कश्चिन्माहात्म्यश्रीमहोदधिः ॥ ४९ ।। इत्थं निरन्तरं श्राद्धास्तद्वाक्यैः क्रकचैरिव ।। दारुवद् दीर्यमाणाङ्गा, गमयन्ति स्म वासरान् ॥ ५० ॥ अस्मिन्नवसरे तत्र, श्रीवज्रस्वामिमातुलाः । श्रीआर्यसमिताचार्या ऐयुर्विद्याविशारदाः ॥ ५१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org