________________
१५१
दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः सहसा तु सुतं दत्त्वा माशयेऽनुशयं कृथाः । पश्चाद्वस्तु स्वहस्तेन, दत्तं न प्राप्यते क्वचित् ॥ २९ ॥ तथापि भद्रे! कार्येऽस्मिन् क्रियन्तां साक्षिणो जनाः । यतः सन्तो विवादाय प्रवर्त्तन्ते कदापि न ॥ ३० ॥ तथा कृत्वा सुनन्दापि खिन्ना तस्मै ददौ सुतम् । सोऽपि तं निजहस्ताभ्यां चिन्तारत्नमिवाददे ॥ ३१॥ पात्रबन्धान्तरे न्यस्तो मुनिना करकोशतः । तत्कालमेव बालोऽयं निवृत्तः परिदेवनात् ॥ ३२ ॥ परिदेवनात्-रोदनात् । सुनन्दामन्दिरादेतौ गुर्वादेशवशंवदौ । नैषेधिकी वितन्वानौ, प्रविष्टौ पौषधालयम् ॥ ३३ ॥ दृष्ट्वा धनगिरि सूरिभरभुग्नभुजालतम् । स्वयमुत्थाय जग्राह, पात्रबन्धं मुनेस्ततः ॥ ३४॥ पात्रबन्धमहाभारकलनाद् गुरवो जगुः। वज्रं वज्रमितीवास्य शिशोर्वज्राभिधाभवत् ॥३५॥ वज्रम्-बालः । तं वीक्ष्य सुन्दराकारमिति दध्युर्मुनीश्वराः । यदेष सत्यतां नेता गुरुतां नः शिशूत्तमः ॥३६॥ अनेन गुरुसारेण, तेजसा चातिशायिना ।। युगप्रधानताधारो ध्रुवं भाव्येष शासने ॥३७॥ बालः पाल्यः प्रयत्नेन संघाधारोऽयमित्यलम् । विमृश्य पालनायालं साध्वीभ्यो गुरवो ददुः ॥३८॥ साध्व्योऽपि निधिवच्छय्यातरस्त्रीभ्यस्तमार्पयन् । ता अप्याददिरे बालमबालं गुणसंपदा ॥३९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org