________________
१५०
श्रीदानोपदेशमाला (गा.२७) मातेयं मद्गुणैः प्रीता दीक्षायै मां न मोक्ष्यति । अतो रुरोद तत्खेदोत्पादनायानिशं शिशुः ॥१७॥ न क्रीडनैर्न चोल्लापैर्न गीतश्रवणैरपि । व्यरंसीद्रोदनान्नैष पूतनापीडिताङ्गिवत् ॥ १८॥ इत्थं रुरोदतस्तस्य षण्मास्या व्यतिचक्रमे । सुनन्दापि निरानन्दा सूनुना तेन साजनि ॥ १९ ॥ अथैयुर्धनगिर्यार्यसमितादियतियुताः । तत्र स्थाने धनास्थाने श्रीसिंहगिरिसूरयः ॥ २० ॥ नत्वा गुरुं धनगिरिः श्रीआर्यसमितान्वितः । संसारिणो वन्दयितुमापप्रच्छ तदा मुदा ॥ २१ ॥ तत्कालं किंचिदाचार्यो विचार्य शकुनं धिया । व्याजहार चमत्कारकारिणी मधुरां गिरम् ॥ २२ ॥ लाभोऽस्ति युवयोरद्य गरीयान् गम्यतामतः । किंत्वचित्तं सचित्तं च लब्धं त्याज्यं न भैक्षकम् ॥ २३ ॥
ओमित्युक्त्वा गतौ गेहं सुनन्दाया महामुनी । तत्र तौ वीक्ष्य तत्सख्यः सहासमवदन्नदः ॥ २४॥ समेतः सखि! ते कान्तः सूनुरस्मै प्रदीयताम् । यथैनं प्राप्य दुःखस्य संविभागी भवेदयम् ॥ २५ ॥ तदा सुनन्दा निर्वेदमापन्ना शिशुरोदनात्। कराभ्यां तमुपादायावादीद् धनगिरेः पुरः ॥ २६ ॥ हे महात्मन्नियत्कालं सक्लेशं पालितः सुतः। इदानीं चैनमादायोद्धर मां दुःखसागरात् ॥ २७॥ गुरोर्गिरं धनगिरिः स्मृत्वा स्मित्वा च तां जगौ। कल्याणि! करणीयं ते साध्ववश्यं वचो मया ॥ २८॥ • रोरुदतस्तस्य इति पाठः संगतो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org