SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४९ दाने सत्पात्रविषये श्रीवज्रस्वामिदृष्टान्तः अथ श्रीधनपालस्य सुनन्दानामनन्दिनी । दृष्ट्वा धनगिरि भाग्यसौभाग्यैकनिकेतनम् ॥ ५॥ प्रतिज्ञामकरोदेवं, यावज्जीवममुं विना । मनसापि पतीयामि, जातुचिन्नापरं नरम् ॥ ६॥ युग्मम् ॥ सुनन्दा धनपालाय, प्रोच्याभिप्रायमात्मनः । उपयेमे धनगिरिमनिच्छुमपि सस्पृहम् ॥ ७॥ गतकामोऽपि तामाप्तकालां बालामभुत सः । यस्मादवश्यभोगेभ्यः कर्मभ्यः कः पलायते ॥ ८॥ तदा पुण्यजनश्च्युत्वा धनदाभः श्रिया सुरः । तस्याः कुक्षिमलञ्चक्रे द्विरेफ इव मञ्जरीम् ॥ ९॥ आपन्नसत्त्वामापृच्छ्य प्रियां धनगिरिः सुधीः । गुरोः सिंहगिरेः पार्श्वे, विरक्तो व्रतमाददे ॥ १० ॥ सुनन्दासोदरेणार्यसमितेन समन्वितः। स जग्राह गुर्विद्या, रत्नराजीमिवार्णवात् ॥ ११ ॥ पूर्णमासा सुनन्दाथ शुभे लग्ने शुभे दिने । सुखेन सुषुवे सूनुं प्राचीव दिवसाधिपम् ॥ १२ ॥ जन्ममङ्गलगीतानि गायन्त्यो हरिणेक्षणाः । दर्श दर्शममुं बालमित्यालपुः परस्परम् ॥ १३॥ नादाष्यत पितैतस्य शिशोर्यदि पुरा व्रतम् । तदाद्य जन्ममङ्गल्यमतुल्यं सोऽकरिष्यत ॥ १४॥ समर्थोऽपि विना कान्तं किं विधत्ते वधूजनः । नायकेन विना सैन्यमन्यचक्रं हि किं जयेत् ॥ १५ ॥ संलापमेवमेतासां श्रावं श्रावं स बालकः जातजातिस्मृतिर्दीक्षाकक्षीकारपरोऽभवत् ॥ १६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy