________________
१४८
श्रीदानोपदेशमाला (गा.२७) वचनात् । सरणत्ति-भवश्चतुर्गतिकसंसारस्तत्रानेकप्रकारदुःखपरंपरया भीताः कान्दिशीका ये जन्तवो जीवास्तेषां शरणम्-प्राणत्राणकरणम्॥ यतःपिता माता भ्राता प्रियसहचरी सूनुनिवहः, सुहृत् स्वामी माद्यत्करिरथभटाश्वः परिकरः॥ निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलम् । गुरोर्धर्माधर्मप्रकटनपरात् कोऽपि न परः ॥१॥ [सिन्दूरप्रकर:१५]
एरिसत्ति-ईदृशगुणसमुपेतं-पूर्वोक्तमहाव्रतादिगुणपरिकलितम्, सुप्रसिद्धं-स्वसमयपरसमयविदितम्। सिद्धिरमणिकृतबुद्धिम् -सिद्धिमुक्तिः सैव रमणी वधूस्तस्यां कृता बुद्धिर्धिषणा येन तत्, यतःपरलोकहितायैव प्रवर्त्तते मध्यमः क्रियासु सदा । मोक्षायैव तु घटते विशिष्टमतिरुत्तमः पुरुषः ॥ १॥
श्रीवज्रस्वामिसदृशं चरमदशपूर्वधरप्रतिमं पात्रं जिनवृषभास्तीर्थंकराः साहन्ति-कथयन्तीति गाथावृन्दार्थः । भावार्थः कथानकगम्यस्तच्चेदम् , भरतेऽवन्तिदेशश्रीशिरःशेखरतां गतम् ।। अस्ति तुम्बवनस्थानं, निधानमिव संपदाम् ॥ १॥ तत्रेभ्यतनयो न्यायी, नाम्ना धनगिरिर्धनी । यं निरीक्ष्यामरगिरी हीतोऽन्यक्षेत्रमासदत् ॥ २॥ सदा मनोवच:कायैर्धर्मकर्मणि कर्मठः । स यौवनश्रियं प्राप, मुमुक्षुरिव निर्वृतिम् ॥ ३॥ तद्विवाहकृते यां यां याचेते पितरौ कनीम् । तां तां निषेधयामास, स दीक्षाग्रहणोन्मुखः ॥ ४॥ * अमरगिरिहींणो इति पाठः समीचीनो भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org