________________
सत्पात्रगुणाघा
. १४७ सव्वंगत्ति-सर्वाण्यपि-समस्तान्यपि यान्यङ्गान्युत्तमाङ्गादीनि तैः सुन्दरं-मनोहरम् , अङ्गविकलोऽपि लोकेऽप्रशंसाभाजनं स्यादत एवेदं हृद्यं विशेषणम् । जणियत्ति, जनित-उत्पादितो जनमनस्सु-भविकचेतस्सु आनन्दो येन तत्। कल्लाणत्ति, कल्याणानीहपरलोकसुखकारीणि यानि श्रेयांसि तान्येव वल्लयो-वल्लयस्तासां ये पल्लवा:-किसलयानि, तेषां यत् पल्लवनं-किसलयनं तत्र घनाघनारम्भ इव-वर्षाकाल इव तत्, यथा घनागमे निखिलवनस्पतीनामुल्लासस्तथा सत्पात्रागमेऽप्यतुल्यकल्याणसंभव इति ॥
मंदरत्ति-मन्दरगिरिमिव धीरम्, यथा कनकाचलं प्रबलतरानिलप्रेढोलनाश्चलयितुं न शक्नुवन्ति, तथा सुविहितमपि परीषहोपसर्गाः सन्मार्गान्न चालयन्तीति । ससहरत्ति-शशधरमिव सौम्यलेश्यया सहितम् , यथा चन्द्रं सकलजननयनानन्ददायिविशदचन्द्रिकया युक्तम् , तथा मुनिमपि परमार्थामन्दानन्दनिस्यन्दसुन्दरशुक्ललेश्यया युतमिति । सायरत्तिसागरमिव गम्भीरम् , यथा समुद्रं प्रचुरतरवारिणा अगाधम् , तथा साधुमपि अप्रतिश्राविगुणत्वेनापरैरलब्धमध्यमिति। दिणयरत्तिदिनकरमिव दीप्ततेजस्कं-दीप्तं तेजोऽस्येति स्वार्थे कश्च वेति प्राकृतसूत्रेण डिल्लप्रत्ययः, यथा किल सकलग्रहेष्वधिकतरतेजःप्रसरभास्वरं भास्करं, तथा मुनिमप्यतिदुस्तपतपस्तेजसा देदीप्यमानमिति ॥
विहियमइत्ति-अनशनावमौदर्य-वृत्तिसंक्षेप-रसपरित्याग-कायक्लेशाङ्गोपाङ्गसंलीनतेति बाह्यम्, तथा प्रायश्चित्त-विनय-वैयावृत्यस्वाध्याय-ध्यान-कायोत्सर्गेत्यान्तरम्, तयोर्योऽस्यैव भेदः षट्षट्प्रकारस्तेन द्वादशविधे तपश्चरणे विहितमतिं कृतबुद्धिम् । उवएसत्तिउपदेशो विशुद्धसिद्धान्ताविरुद्धधर्मदेशनालक्षणस्तस्य दानं निस्पृहत्वेन च वितरणम्, तत्र प्रगुणं सावधानम्, उवएसपरो य आयरिओ इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org