SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४६ श्रीदानोपदेशमाला (गा.२७) परीषहाणां समूहः क्षुत्-पिपासा-शीतोष्ण-दंशमशक-नाग्न्यारति-स्त्रीचर्या-निषद्याशय्याक्रोश-वध-याच्चालाभ-रोग-तृणस्पर्श-मल-सत्कारपुरस्कारप्रज्ञाज्ञाना(?न)दर्शनरूपो येन तत्। जिय कोहंति-जितः क्षयं नीतः क्रोधो रोषो येन तत् । जियमाणंति-जितो मानो अहङ्कारविकारो येन तत् , जियमायंति-जिता माया परवञ्चनारूपा येन तत् , तथैव च तेनैव प्रकारेण जितो लोभश्चतुर्थसंपरायो येन तत् , एतेषां पृथग्जयकरणमिति ज्ञापयति यदेषां मध्ये एकैकोऽपि संसारकान्तारप्ररूढगूढभूमीरुहमूलसिञ्चनहेतुत्वात्। यदाहुः श्रीशय्यंभवाचार्यपादाःकोहो य माणो य अणिग्गहीया, माया य लोहो य पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥ [दशवै०८।४०] जियकामंति[जिताः कामाः शब्दादिलक्षणा येन तत् ,] जियमोहंति-जितो मोहोऽज्ञानलक्षणो येन तत्, यतो मोहमहाग्रहग्रस्त: प्राणी युक्तायुक्तविवेचको न भवति। उक्तं चण गणेइ कुलकलंकं, ण गुरुवएसं ण सीलगुणभंसं । ण य जसकित्तिविणासं गहिओ मोहग्गहेण णरो ॥ १॥ जियणिदंति-जितं निद्रापञ्चकं निद्रा-निद्रोनिद्रा-प्रचला प्रचलाप्रचलास्त्यानी-रूपं येन तत् , निद्रा प्रमादो भवपाताय जायते। यदुक्तं-मजं विसयकसाया णिद्दा विकहा य पंचमी भणिया । एए पंच पमाया जीवं पाडंति संसारे ॥१॥ [संबोधसत्तरी गा०७७] नित्यमिति ज्ञापयति यदेतेषां जयविधौ सर्वदैव यतनीयमिति ॥ सोमाकारंति-सौम्योऽरौद्रत्वात् सर्वजनमन:प्रसत्तिकृदाकार आकृतिर्यस्य तत् , आकृतिरेव सकलगुणमूलत्वात् ॥ यतःयत्रोदकं तत्र पतन्ति हंसा, यत्रामिषं तत्र पतन्ति गृध्राः । यत्रार्थिनस्तत्र भवन्ति वेश्या यत्राकृतिस्तत्र गुणा भवन्ति ॥ १॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy