SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सत्पात्रगुणाघा विहियमई तवचरणे बहिरंतरभेयबारसविहंमि । उवएसदाणपगुणं सरणं भवभीयजंतूणं ॥ २६॥ एरिसगुणोववेयं सुपसिद्ध सिद्धिरमणिकयबुद्धिं । सिरिवइरसामिसरिसं पत्तं साहति जिणवसहा ॥२७॥ __व्याख्या-पंचमहव्वयत्ति, पञ्चसंख्यानि यानि महाव्रतानि, प्राणातिपात-मृषावादादत्तादान-मैथुन-परिग्रहपरिहारलक्षणानि, तैः कलितं तदासेवनसावधानमानसम् । अक्खलियंति-अस्खलितम्, क्व? ज्ञानदर्शनचारित्रे, ज्ञानं च दर्शनं च चारित्रं चेति द्वन्द्वः। तत्र ज्ञानं मतिश्रुतावधिमनःपर्यायकेवलभेदेन पञ्चप्रकारम्, दर्शनमौपशमिकक्षायोपशमिकक्षायिकसास्वादनमिश्रादिभेदम् , अथवा कारक-रोचकदीपकभेदवत्। चारित्रं-पञ्चसमितित्रिगुप्त्यात्मकम् , अथवापञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१॥ इत्येवंविधे ज्ञानदर्शनचारित्रेऽस्खलितम्-अतीचारस्खलनारहितम्। अट्ठमयत्ति-अष्टौ अष्टसंख्या ये मदा जाति-कुल-रूपबहु(ल)-श्रुत-तपो-लाभैश्वर्योत्कर्षोत्थास्तैर्विप्रयुक्तं विमुक्तं, यतो मदा हि क्रियमाणा अशुभाय संभवन्ति । यदुक्तंजाइ-कुल-रूव-बल-सुय-तव-लाभेसिरियअट्ठमयमत्तो । एयाई चिय बंधइ असुहाई बहुं च संसारे ॥१॥ [उपदेशमाला-गा.३३०] जियदुसहत्ति, जित:-पराभूतो, दुःसहानां-सोढुमशक्यानाम् , Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy