________________
१४४
श्रीदानोपदेशमाला (गा.२४) संप्रेक्ष्य समुल्लसति धन्योऽहं कृतपुण्योऽहमित्युच्चावचमनोरथश्रेणिनिश्रेणिशिखराधिरूढं स्यादिति गाथार्थः ।। अथ वित्तस्वरूपमाह - जं उत्तमसंगणं समज्जियं वज्जियं च कवडेणं । तं पत्तदाणजुग्गं वित्तं संजायइ पवित्तं ॥ २१॥
व्याख्या-यदुत्तमसंगेन-प्रधानपुरुषसंबन्धेन, अर्जितम्-उपार्जितम्, यच्च पापिजनसंगत्यागार्जितं स्यात्तत्सुविहितदानयोग्यम् , न गर्हितत्वात्। उक्तं च - खस-ताइय-सबर-पुलिंदियाण संगेण जं विढत्तं तु । तण्ण धणं धम्मट्ठाण, कप्पए जं सुविहियाणं ॥१॥
तथा कपटेन कूटतुला-कूटमान-चौर्य-न्यासापहारादिना वर्जितं रहितं स्यात्, तद्वित्तमशन-पान-खादिम-स्वादिम-वस्त्र-पात्र-कम्बलशय्या-संस्तारकादिवस्तुरूपं पात्रदानयोग्यं सुविहितजनवितरणोचितं पवित्रं दातुर्ग्रहीतुरप्यनन्तपातकघटाविघटनत्वेन नैर्मल्यकृद् भवतीति गाथार्थः ।। इदानीं गाथाषट्केन सत्पात्रगुणश्लाघां प्रख्यापयन्नाहपंचमहव्वयकलियं अक्खलियं णाणदंसणचरित्ते । अट्ठमयविप्पमुक्कं जियदुसहपरीसहसमूहं ॥ २२॥ जियकोहं जियमाणं जियमायं तहय चेव जियलोहं । जियकामं जियमोहं जियणिद्दापंचयं णिच्चं ॥ २३॥ सोमाकारं सव्वंगसुंदरं जणियजणमणाणंदं ।। कल्लाणवल्लिपल्लवपल्लवणघणाघणारंभं ॥२४॥ मंदरगिरिमिव धीरं ससहरमिव सोमलेसया सहियं । सायरमिव गंभीरं दिणयरमिव दित्ततेइल्लं ॥ २५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org