SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४३ परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा अन्यदा तमनुज्ञाप्य वीरभद्रः प्रियान्वितः । स्वपित्रोमिलनायागात्तामलिप्ती महापुरीम् ॥ २७५ ॥ पित्रोर्मनोरथमयं परिपूर्य तत्र, संपूज्य दानविधिना जिनसाधुसंघान् । वैताढ्यभूधरवरे गमनं विधाय सद्धर्मबुद्धिरगमद्दिवि वीरभद्रः ॥२७६ ॥ (वसन्ततिलका) इति पात्रेषु यथा कृतवान् दानविधिं जिनदासः । भव्यास्तं विदधीत तथा येन भवेच्छिववासः ॥ २७७ ॥ इति रुद्रपल्लीयगच्छशृङ्गारहारश्रीसंघतिलकसूरिशिष्यश्रीदेवेन्द्रसूरिविरचितायां श्रीदानोपदेशमालावृत्तौ परमान्नदानविषये श्रीजिनदासश्रेष्ठिदृष्टान्तः समाप्तः॥ श्रीअरपरमेश्वरजीवनियुक्तपरमान्नदानवैषयिकं श्रीजिनदासश्रेष्ठिदृष्टान्तमुक्त्वा पुनस्तदेव दानं दीयमानं कया युक्त्या सफलं स्यादित्याहतं चित्तवित्तपत्ताण, भेयओ जायए महासहलं । एयं तिवेणिसंगमतित्थं समए पवित्तयरं ॥ १९॥ व्याख्या-तद्दानं चित्तवित्तपात्राणां भेदतो महासफलं जायत इत्यर्थः। यत एतत्रिवेणीसङ्गमतीर्थं पवित्रकरं यथा किल लोके मन्दाकिनी-यमुना-सरस्वतीस्रोत:संगतिरूपं त्रिवेणीसंगमतीर्थमनन्तभवजनित-पातकसंघातसंघातनत्वेन पावनात्मकमिति गाथार्थः ।। आदौ तावच्चित्तस्वरूपं प्ररूपयन्नाहते धन्ना सकयत्था तेसिं सहलं च माणुसं जम्मं । संपिच्छिऊण मुणिणो जेसिं चित्तं समुल्लसइ ॥ २०॥ व्याख्या-ते प्राणिनो धन्याः-पुण्यात्मका अत एव सत्कृतार्थाः कृतकृत्यास्तेषां च मानुषं जन्म सफलं-फलेग्रहि, येषां चित्तं मुनीन् Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy