________________
१४२
श्रीदानोपदेशमाला (गा.१८) तिस्रोऽपि हि निजं कान्तमभ्रान्तमवगत्य ताः । अस्तोकशोकशङ्कायाः, प्रवितेरुर्जलाञ्जलिम् ॥ २६३ ।। गणिनी सुव्रतापीदृक् स्वरूपं विनिरूप्य तम् । जगाद किमिदं सोऽपि तां नत्वेति व्यजिज्ञपत् ॥२६४ ।। भगवत्यखिलं ह्येतद् देशान्तरदिदृक्षया । निरमायि मया सम्यक् नान्यत्किमपि कारणम् ॥२६५ ॥ सुव्रता प्राह हे भद्र! वीरभद्र! त्वया पुरा । किमप्यपूर्वं सुकृतं, कृतं तेन तव श्रियः ॥२६६ ॥ तदेतस्य परिज्ञानहेतवेऽरं जिनेश्वरम् । गत्वा संप्रति पृच्छामः, कथयिष्यति स प्रभुः ॥२६७ ॥ ततः सा सुव्रतासाध्वी, श्रेष्ठी सागरदत्तकः । वीरभद्रोऽपि कान्तायुक् जग्मुर्जिनवरान्तिकम् ॥२६८ ॥ अरनाथं नमस्कृत्य, सुव्रता प्राह हे प्रभो!। पुरा जन्मनि किं वीरभद्रेण सुकृतं कृतम् ॥२६९ ।। प्रभुः प्राह भवादस्मात्तृतीये जन्मनि स्फुटम् । जिनदासभवेऽनेनास्म्यर्हन्मासिकपारणे ॥२७० ।। प्रवर्धमानभावेन, परमान्नेन पारितः ।। तेनास्य वीरभद्रस्य, जज्ञिरे भोगसंपदः ॥ २७१ ॥ युग्मम् ॥ तच्छ्रुत्वा वीरभद्रोऽपि, जातजातिस्मृतिर्निजान् ।। प्राग्भवानस्मरद् विन्ध्याचलारामानिव द्विपः ॥ २७२ ।। वीरभद्रः प्रभुं नत्वा, ज्ञातदानफलोदयः ।। समं सागरदत्तेन प्रियायुग् गृहमागतः ॥ २७३ ।। श्रेष्ठी सागरदत्तोऽपि, वीरभद्रं प्रियान्वितम् । सच्चकार यतः पुत्रीपतिः सत्कारमर्हति ॥ २७४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org