________________
१४१
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा व्याख्यान्तेऽवसरं प्राप्य, श्रेष्ठी सागरदत्तकः । प्रणत्य मस्तकन्यस्तहस्तः कुम्भं व्यजिज्ञपत् ॥ २५० ॥ भगवन्नेकदाश्रौषमिति यत्ते सुतापतिः । सुप्तां प्राणप्रियां हित्वा, क्वापि देशान्तरे गतः ॥२५१ ।। तदा जातज्वर इव दुःखमन्वभवं महत् । ततः पुत्रीं समानाय्यास्थापयं निजवेश्मनि ॥२५२ ॥ सोऽधुना मम जामाता, वीरभद्रः क्व विद्यते। इति प्रसद्य सद्यस्त्वं, स्वामिन्नाख्याहि मत्पुरः ॥२५३ ।। अथ कुम्भोऽब्रवीच्छेष्ठिन्निविष्टो यस्त्वदन्तिके । वामनो दृश्यते सोऽयं, जामाता भवतः स्फुटम् ॥२५४॥ स्वामिन् ! किमित्ययं खर्वभावं भेजे गुरुर्जगौ । श्रेष्ठिन्! स्वदयिताशीलपरीक्षायाः कृते कृती ॥२५५ ॥ वामनोऽपि निशम्यैवं, स्वचेतसि चमत्कृतः। भक्तियुक्त्या नमस्कृत्य, कुम्भं गणधरं जगौ ॥२५६ ॥ भगवन्नेवमेवैतत्पूज्यपादैय॑गादि यत् । यद्वा ज्ञानेन विज्ञाते किं स्याद्वस्तुनि संशयः ॥२५७ ॥ ततो गणधरं नत्वा श्रेष्ठी सागरदत्तकः ।। वामनं सहकृत्वागात्, सुव्रताया उपाश्रयम् ॥२५८॥ तं वामनमथायातं, तास्तिस्रोऽपि पतिव्रताः । परिवठः प्रियोदन्तवक्ता कस्य न हि प्रियः ॥२५९ ।। श्रेष्ठी जगाद हे वत्सास्तिसृणां वो ह्ययं पतिः । कथं तातेति पृष्टस्तत्स्वरूपं सर्वमाह सः ॥२६० ।। वामनोऽपि निजादास्यानिष्काश्य गुटिकां लघु । खर्वताममुचद्यस्मात्किमसाध्यं कलावताम् ॥ २६१॥ पूर्वं तादृग्विधोऽनङ्गसुन्दर्या यादृगीक्षितः । पश्चात्स्वाभाविकं गौरं, रूपं स्वीकृतवानयम् ॥ २६२ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org