________________
१४०
श्रीदानोपदेशमाला (गा.१८) तयाप्यङ्गीकृते तौ च नभस्युत्पत्य विद्यया । सुव्रताव्रतिनीधर्मशालाद्वारे समीयतुः ॥२३८॥ तत्र स्थित्वा क्षणं बुद्धिदासो भार्यामभाषत । यावत्स्नात्वाहमायामि तावत्स्थेयमिह त्वया ॥२३९ ॥ तत्स्वरूपनिरीक्षायै गत्वा कियदिलातलम् । प्रच्छन्नीभूय तस्थौ सोऽञ्जनसिद्धपुमानिव ॥२४० ॥ गणिन्या रुदती पत्युर्वियोगेन प्रबोध्य ताम् । नीतां स्वोपाश्रये मत्वा कुतुकी क्वापि सोऽगमत् ॥२४१ ।। भूपोऽधुना सभासीनो भवितेति निगद्य सः । उत्थितस्ताभिरूचे च भद्र! क्वास्ति स संप्रति ॥२४२ ॥ श्वः समेत्य प्रवक्ष्यामीत्युक्त्वागात्स नृपान्तिकम् । राजापि सचमत्कारः सच्चकारोच्चकैस्तकम् ॥२४३ ।। अस्माकमेकः कान्तोऽस्ति, त्रिवेणीसंगतीर्थवत् । इति तिस्रोऽपि ता ज्ञात्वा, बिभराञ्चक्रिरे मुदः ॥२४४ ॥ अस्मिन्नवसरे श्रीमान्, श्रीअरः परमेश्वरः ।। विहरन् पद्मिनीखण्डपुरखण्डममण्डयत् ॥२४५ ॥ प्राकारत्रितयोपेतं, प्रातीहार्यविराजितम् । निर्ममे निर्ममेशस्य, त्रिदशैर्देशनासदः ॥२४६ ॥ तत्र सिंहासनासीनः श्रीअरः परमेश्वरः । " ईशानचन्द्रराजेन्द्राद्यग्रे व्याख्यानमातनोत् ॥२४७ ।। तत्र सागरदत्ताख्यः, श्रेष्ठी तं परमेष्ठिनम् । नमस्कर्तुं समायातं, खर्वशाखं व्यलोकयत् ॥२४८॥ व्याख्यानाद्विरते नाथे, कुम्भो गणधराग्रणीः । दिदेश देशनां क्लेशनाशिनी शर्मदेशिनीम् ॥२४९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org