SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३९ परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा समं स रत्नप्रभया, भोगाननुभवंश्चिरम् । अपश्यदेकदा विद्याधरान् संभूय गच्छतः ॥ २२६ ॥ क्वामी जवेन यान्तीति, तेन प्रियतमोदिता । साहात्रैव गिरौ नन्तुं, प्रतिमाः शाश्वतार्हताम् ॥ २२७ ॥ तत्र कौतूहलेक्षार्थं यामो वयमपि प्रिये! । इत्युक्त्वा बुद्धिदासोऽद्रिमारुरोह तया समम् ॥ २२८ ॥ तत्र शाश्वतबिम्बानि, बुद्धिदासो मुदाऽनमत् । रत्नप्रभापि भावेन, तत्पुरो नृत्यमातनोत् ॥ २२९॥ सोऽजानान इव प्राह प्रिये! सिंहलवासिना । सुगतानुगतेनेदृग् देवो नैक्षि क्वचिन्मया ॥ २३० ॥ तद्भाववेदिनी रत्नप्रभा प्राह प्रियं प्रति । स्वामिन्नेष चतुःषष्टिसुरेन्द्रैर्वन्दितक्रमः ॥ २३१ ।। प्रस्फुरत्केवलज्ञानलोकालोकप्रकाशकः । संसारसागरोत्तारतरी देवो जिनेश्वरः ॥ २३२ ॥ युग्मम् ॥ रागद्वेषप्रमादादिदूषितैस्तैरुपासितैः । सुगताद्यैर्भवेयुः किं, शाश्वत्यः शर्मसम्पदः ॥ २३३ ॥ येऽमुं देवं सदा दोषै, रहितं सहितं गुणैः । सेवन्ते तान् स्वयं मुक्तिवनिता वृणुतेतमाम् ॥ २३४ ॥ सोऽपि प्राह प्रिये! साधूपदेशो मे त्वया ददे । अतः परं ममाप्येष एव देवः सदा मुदे ॥ २३५ ॥ परस्परं रसोल्लासाद् गङ्गासागरयोरिव । तयोः प्रीतिजुषोभूयान् कालः क्षणमिवागमत् ॥२३६ ॥ बुद्धिदासोऽन्यदावादीत्, प्रिये ! दक्षिणभारते । पत्तने पद्मिनीखण्डे, प्रयावो वन्दितुं जिनान् ॥२३७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy