SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३८ श्रीदानोपदेशमाला (गा.१८) सुसंचरवरज्ञातवृत्तान्तेन महीभुजा । प्रशंसितस्तृतीयेऽपि, दिने तत्र स ईयिवान् ॥ २१४॥ श्रेष्ठिसूराजपुत्रीभ्यां पृष्टः स स्पष्टमालपत् । स वार्डों वहने भग्ने दैवात्फलकमासदत् ॥ २१५ ।। सप्तमेऽह्नि तथावस्थं, विलोक्य रतिवल्लभः । विद्याधरमहाराजो, वैताढ्याद्रौ निनाय तम् ॥ २१६ ॥ स पुत्रीकृत्य तं पत्न्यै मदनायै मुदा ददौ । सापि निर्भरया प्रीत्या, पुपोष प्रतिवासरम् ॥ २१७ ॥ वार्धेरुद्धारवेलायां स श्यामत्वविधायिनीम् । निष्कास्य गुटिकामास्याद् गौरं रूपमुपाददे ॥ २१८॥ वीरभद्रो वसंस्तत्र बुद्धिदासाभिधां निजाम् । प्रजासु प्रथयामास कलाः, प्रतिपदिन्दुवत् ॥ २१९ ॥ पृष्टः पितृभ्यां सोऽवादीत् सर्वं चरितमात्मनः । अपृच्छच्च तदा तात! तादृक्कष्टादरक्षिषि ॥ २२० ॥ परं न वेद्मि सा क्वास्ति, मत्प्रियानङ्गसुन्दरी । इति विज्ञप्त आभोगिन्या तां ज्ञात्वाह खेचरः ॥ २२१ ।। वत्स! स्वच्छमतेऽत्रैव पद्मिनीखण्डपत्तने । सुव्रतायास्तपस्विन्याः सुकृताश्रयसंस्थिता ॥ २२२ ॥ भवता हि पुरोदूढप्रियदर्शनया समम् । क्षेमेणास्ति तवानङ्गसुन्दरी जीवितेश्वरी ॥ २२३ ॥ कलत्रकुशलोदन्तं, निशम्य रतिवल्लभात् । प्रीत्योल्ललास स श्रीमानब्धिरिन्दूदयादिव ॥ २२४॥ कन्यां वेगवतीजातां, सुरूपां रतिवल्लभः । रत्नप्रभाभिधां बुद्धिदासं तं पर्यणीणयत् ॥ २२५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy