________________
१३७
परमान्नदानविषये श्रीजिनदासश्रेष्ठिकथा तं यान्तं सहसोत्थाय जगाद प्रियदर्शना । वद वामन! देशे क्व वीरभद्रस्ततोऽगमत् ॥ २०२॥ हहा नाहं परस्त्रीभिः समं जल्पन्निजं कुलम् । अमलं मलिनं कुर्वे स तामेवमवोचत ॥ २०३ ॥ सा प्राह युक्तमेवैतत् कुलीनानां भवादृशाम् । परं परप्रार्थनाया, भङ्ग सन्तो न कुर्वते ॥ २०४॥ भद्रे! त्वदाग्रहात् प्रातर्वक्तास्म्युक्त्वेति सोऽगमत् । तस्य वार्तां च भूभर्ता श्रुत्वाजनि सविस्मयः ॥ २०५ ॥ वामनोऽह्नि द्वितीयेऽपि तथैव तदुपाश्रयम् । समेत्य पुरतस्तासां, वीरभद्रकथां जगौ ॥ २०६॥ गुटिकायाः प्रयोगेण, श्यामं रूपं विधाय सः । कलाः प्रकटयन् स्वस्य, ग्रामाद् ग्रामं पुरात् पुरम् ॥ २०७॥ पर्यटन् सिंहलद्वीपे पुरं रत्नपुरं गतः । पुपुत्रीयिषता शङ्ख श्रेष्ठिना स्थापितो गृहे ॥ २०८॥ युग्मम् ॥ नागरान् विस्मयस्मेरान् कुर्वन्विविधकौतुकैः । समं विनयवत्यासौ, वनितावेषधारकः ॥ २०९॥ अन्तपुरं गतोऽनङ्गसुन्दरीं राजनन्दिनीम् । वीणाकलानुरक्तां तां पित्रा दत्तामुदूढवान् ॥ २१०॥ युगलम् ॥ अन्यदा सप्रियस्यास्य, तामलिप्ती यियासतः । समुद्रे वहनं भग्नं, हस्तप्रस्रस्तकुम्भवत् ॥ २११ ॥ अतिक्रामति भूशक्रसेवायाः समयो मम । इति प्रोच्य स उत्तिष्ठन्नूचे नृपतनूजया ॥ २१२ ॥ श्रुतपूर्वमिदं सर्वं, निखर्वाख्याहि सोऽधुना । क्वास्ते प्रातः प्रवक्तास्मीत्युक्त्वा सोऽगान्नृपान्तिकम् ॥ २१३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org